________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
8515 (प्रविश्य) पारिपार्श्विकः--भाव भवता निबद्धस्य विदग्धमाधवनानो नवीननाटकस्य प्रयोगानुसारेण गृहीतभूमिकाः कुशीलवा रङ्गप्रवेशाय तत्रभवन्तमनु ज्ञापयन्ति ।
सू- - मारिष पश्य, सोऽयं वसन्तसमयः समयाय यस्मिन् पूर्ण तमीश्वरमुपोढनवानुरागम् ।
गूढग्रहा रुचिरया सह राधयासौ रङ्गाय सङ्गमयिता निशि पौर्णमासी ॥ End: किंच
अन्तःकन्दलितादरः श्रुतिपुटीमुद्घाटयन् सेवते यस्ते गोकुलकेलिनिर्मलसुधासिन्धूत्थबिन्दूनपि । राधामाधविकामधो मधुरिम[I] स्वाराज्यमस्यार्जयन्
साधीयान् भवदीयपादकमले प्रेमोर्मिरुन्मीलतु ॥ कृष्णः-भगवति तथास्तु । तदेहि गोदोहावसरे मामप्रेक्ष्य चिन्तयिष्यन्तौ पितरावविलम्बं गोकुलं प्रविश्य नन्दयामः ॥
(इति निष्क्रान्ताः सर्वे) Colophon: गौरीविहारो नाम सप्तमोऽङ्कः । समाप्तमिदं विदग्धमाधवं नाम नाटकम् ।।
राधाविलासं विताकं(वीताङ्क) चतुष्पष्टिकलाधरम् । विदग्धमाधवं साधु शीलयन्तु विचक्षणाः ॥ नन्दसिन्धुरबाणेन्दुसङ्खये संवत्सरे गते । विदग्धमाधवं नाम नाटकं गोकुले कृतम् ॥ शान्तश्रियः परमभागवताः समन्ताद्वैगुण्यपुञ्जमपि सद्गुणतां नयन्ति ।
दोषावलीमपरितापितया मृदूनि ज्योतींषि विष्णुपदभाञ्जि विभूषयन्ति ॥ श्लोकाः ॥ २१७० ॥
No. 12679. विदग्धमाधवप्राकृतविवरणम्. VIDAGDHAMADHAVAPRĀKRTAVIVARANAM. Pages, 14. Lines, 28 on a page,
Begins on fol. 60a of the MS. described under No. 12618. Wants the beginning.
For Private and Personal Use Only