SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8148 A DESCRIPTIVE CATALOGUE OF वाणीसाक्षिक(सार्वश्य)निर्वाहोपायचिन्तनम् । दशमे योगशक्तया भूपतिकायप्रवेशनम् ॥ बुद्धा मीनध्वजकस्तां(लाः)तत्र सङ्गप्रपञ्चनम् । सर्ग एकादशे तूग्रभैरवाभिधनिर्जयः ॥ द्वादशे हस्तधाच्यार्यतोटकोभयसंश्रयः । वार्तिकान्तब्रह्मविद्याचालनं तु त्रयोदशे ॥ चतुर्दशे पद्मपादतीर्थयात्रानिरूपणम् । मर्गे पश्चदशे तूक्तं तदाशाजयकौतुकम् ॥ षोडशे शारदापीठवासस्तस्य महात्मनः । इति षोडशभिस्सगैव्युत्पाद्या शाङ्करी कथा ॥ सैषा कलिमलच्छेत्री सकृच्छ्रत्यापि कामदा । नानाप्रश्नोत्तरै रम्या विदामारभ्यते मुदे ॥ एकदा देवता रूप्याचलस्थमुपतस्थिरे । देवं देवास्तुषारांशुमिव पूर्वाचलस्थितम् ॥ प्रसादानुमितस्वार्थसिद्धयः प्रणिपत्य तम् । मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन् । विज्ञानमेव भगवन विद्यते य(डिताय)नः । वश्चयन्नासुरान् बुद्धवपुर्धारी जनार्दनः ॥ तत्प्रणीतागमालम्बौद्धैर्दर्शनदूषकैः । व्याप्तेदानीं प्रभो घात्री रात्रिस्सन्तमसैरिव ॥ तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् । वर्त्म स्थापयतु श्रौतं जगयेन सुखं व्रजेत् ॥ इत्युक्तोपरतान् देवानुवाच गिरिजाप्रियः । मनोरथं पूरयिष्ये मानुष्यमवलव्य वः ॥ दुष्टाचारविनाशाय धर्मसंस्थापनाय च । भाष्यं कुर्वन् ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥ मोहनप्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः । चतुर्भिः सहितः शिष्यैश्चतुरै(हरि)वहि(द्ध)जैः ।। यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy