SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 814 THE SANSKRIT MANUSCRIPTS. यत्नादुदल्पधिषणामृणिना गृहीतुं शक्यं तदत्र सरसं सकलं गृहीत्वा । काञ्चिन्महेश्वरगुरुस्मृतिभिन्नमोहः सङ्केपशङ्करजयस्रजमातनोमि ॥ यद्वद् घटानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि । तहन्मदीये लघुसङ्ग्रहेऽस्मिन्नुहीक्ष्यतां शङ्करकाव्यसारः ॥ यथालिरुच्ये मधुरेऽपि रुच्युत्पादाय रुच्यान्तरयोजना: । तथेक्ष्यतां प्राक्कविहृद्यपद्येष्वेषापि मत्पद्यनिवेशभङ्गी ॥ स्तुतोऽपि सम्यक् कविभिः पुराणैः कृत्वापि नस्तुष्यतु भाष्यकारः । क्षीराब्धिवासी सरसीरुहाक्षः क्षीरं पुनः किं [न] चकमे न गोष्ठे ।। पयोऽब्धिनिबिरीसनिस्सृतसुधाझरीमाधुरीधुरीणफणिताधरीकृतफणाधराधीशितुः । शिवङ्करसुशङ्कराभिधजगद्गुरोः प्रायशो यशोहृदयशोधकं कलयितुं समीहामहे । केमे शङ्करसद्गुरोर्गुणगणा दिग्जालकूलङ्कषाः कालोन्मीलितमालतीपरिमलावष्टम्भमुष्टिन्धयाः । काहं हन्त तथापि सद्गुरुकृपापीयूषपारम्परीमनोन्ममकटाक्षवीक्षणबलादस्मि प्रशस्तोऽर्हताम् ।। नेता यत्रोल्लसति भगवत्पादसंज्ञो महेशः । शान्तियंत्र प्रभवति रसश्शेषवानुज्ज्वलाद्यैः यत्राविद्याक्षतिरपि फलं तस्य काव्यस्य कर्ता धन्यो व्यासाचलकविवरस्तस्कृतिज्ञाश्च धन्याः ॥ तत्रादिम उपोद्घातो द्वितीये तु तदुद्भवः । तृतीचे तत्तदमृतान्धोऽवतारनिरूपणम् ॥ चतुर्थसर्गे तच्छुद्धाष्टमप्राकूचरितं स्थितम् । पञ्चमे तद्योग्यसुखाश्रमप्राप्तिनिरूपणम् ॥ महतानेहसा यैषा सम्प्रदायागता गता । तस्याश्शुद्धात्मविद्यायाः षष्ठे सर्गे प्रतिष्ठितिः ॥ तद्व्यासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् । स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy