SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8501 पारावारसुतापयोधरतटीकण्ठं समालम्बते स श्रेयांसि चतुर्भुजो रचयतालक्ष्मीनृकण्ठीरवः ॥ अकुतोजनुषाभावि भाषया यस्य हेषया । अस्तु मे वस्तु मेधायै कन्धरोपरि सैन्धवम् ॥ (नान्यन्ते) सूत्रधारः---आर्य मारिष इतस्तावत् । आदिष्टोऽस्मि निरन्तरनमस्क्रियालङ्कमीणसुरराजमकुटमणिकिरणकिम्मीरितचरणारविन्दस्य गरुडाचलकुटुम्बिनो भगवतः श्रीमदहोबलेश्वरस्य वसन्तोत्सवविलुलोकिषासमायांतर्भागवतैः । मारिषः-कथमिव । सूत्र--अये नृकण्ठीरवविवाहनिरूपकं प्राथमिकरसोद्दीपक रूपकमभिनेतव्यमिति । मा--ममेतदाकर्ण्य चिन्ताडोलायितं चेतः। अवश्यमनतिलङ्घनीयमाज्ञापन प्राज्ञानाम् । प्रत्येकशो नो वीणाभि(न्वि)तैव नटनसामग्री। नस्सन्निहिता एव सर्वे पारिपार्श्वगाः । समस्तमिदमास्ताम् ; किन्तु वसन्तवनविहारिण्या कयाचन तरुण्या विजितान्तरङ्गः तदुपलम्भसंभावनया नागत एव नटनकर्मनर्मानुसारी नरकसेरी । तदुपरि किं विधेयमिति ।। परमभागवतैः परिवृते श्रीमदहोबिलपुरे । आसीद्यासस्य वीप्सा शुकमुनियमकं पुण्डरीकद्विरुक्तिः प्रहादस्यानुवादः प्रथितयतिकुलप्राग्रणीर्वण्छठारिः । प्राज्ञानां यस्तु राज्ञां पदविनतिकृतामष्टवर्णोपदेशा दष्टैश्वर्याष्टभोगानदित समधिकामष्टविख्यातवांश्च ।। मारिषः--(सानुस्मरणम् ) आः किं स एवायम् । यं किल निरङ्कुशब्रह्मचर्यव्रतमनितरानुकार्यद्रविडगाथाचार्यकुलधुर्यमनिवार्यतपश्चर्यामर्यादानुमोदितनहर्यक्षवितीर्णचतुस्सप्ततिसंख्यानिष्णातवैष्णवकुलभद्रासनाधिपत्यं पुराविद उदाहरन्ति प्रणामस्तत्पदाम्भोजपरागपरमाणवे । यत्सङ्गमात्रादभवन्नपरागाः पुराजनाः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy