SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THÈ SANSKRIT MANUSCRIPTS. 8143 एकैकमेकैककविप्रयुक्तं श्लोकस्थितं वर्णमपव्यवस्थम् । आकर्ण्य तत्संख्यमथ प्रयुङ्क्ते स्वयंकृतश्लोकगतं च वर्णम् ॥ रीत्यानया श्लोकशतं कवीनां शतस्य निर्वक्त्यवधारयित्वा । समस्यया पूर्तिमतीमथैतां स्वयंकृत श्लोकशती तथैव ॥ अतोऽभिधानेन शतावधानो बभूव लोके विदितप्रभावः । अनन्यसाधारणशक्तिशाली संख्यावतां संसदि माननीयः ॥ श्रुत्यर्थसार्थानवबोधहेतोर्महान्धकारे पततां चिराय । सञ्चारहेतोर्विविधक्रियायै मन्त्रार्थदीपं कृतवान् कृती यः ॥ नानाव्यवस्थाश्रमवन्तमन्तर्विद्वद्विचारोच्चलदुत्तरङ्गम् । यः कालतत्त्वार्णवमुत्तरीतुं रामप्रकाशं निबबन्ध सेतुम् ।। यस्य च कविद्वयकृतमेतत् श्लोकद्वयम् - अहं हरिहरस्सिद्धरवलम्बे सरस्वतीः । साक्षात् शतावधानत्वमवतीर्णा सरस्वती ।। पुंरूपा हरिणी साक्षादवतीर्णा सरस्वती । जितश्शतावधानोऽतो विष्णुनापि न जिष्णुना ॥ किञ्च अधीयानमुद्दिश्य चाध्यापकोऽसौ भवानन्दसिद्धान्तवागीश ऊचे । अयं कोऽपि देवोऽनवद्यातिविद्याचमत्कारधारामपारां बिभर्ति ॥ तस्मादहं समुत्पन्नो महापुरुषतः पुमान् । धामैकनिधितः सूर्यात्किरणैककणो यथा ॥ विचार्य तारकं चक्रं पिता मे करुणानिधिः । मन्नाम रामदेवेति कृतवान्नामकर्मणि || नाम्नैव सम्बोध्य जनः कथायां यदैतमाकारयिता तदाशीः । ततोऽग्रजो मामतिवत्सलत्वाचिरं चिरंजीवतया जुहाव ।। सोऽहं पुरस्समधिगम्य पितुः प्रसादं ब्रह्मैकतां गतवतः शिवराजधान्याम् । यत्नादधीतमनधीतमथापि शास्त्रमध्यापयामि निभृतं निपुणं विचार्य ।। न्यायादिशास्त्रेषु मया कृता ये काव्येषु ये वा रुचिराः प्रबन्धाः .। भवन्ति विद्यासु च यालु यासु ये ये बुधास्ते परितोषकास्ते ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy