SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 814: A DESCRIPTIVE CATALOGUE OF Beginning : तमोगणवि(ना)शिनी सकलंकालविद्योतिनी धरातलविहारिणी जडसमाजविद्वेषिणी । कलानिधिसहायिनी लसदलोलसौदामिनी मदन्तरवलम्बिनी भवतु कापि कादम्बिनी ।। दक्षो दक्षोपत्मे(मे)यः समजनि जनतारम्भसम्भावनीयो रक्षोविक्षोभनीतः प्राथेतजनपदो रक्षितो येन गौडः । यस्याशीर्वाददूर्वादलकलितशिखो भूपतेर्यज्ञयूपः संजातोऽनेकशाखः स्फुटमिव निगमो व्यासतो व्यासमाप्तः ।। क्रियादक्षस्य दक्षस्य राटापुरनिवासिनः । सौजन्यजनिता कीर्तिौडदेशमपूरयत् ।। तस्य काश्यपगोत्रस्य कश्यपस्येव सन्ततिः ॥ प्रचुरो गौडदेशीयकुलीनाग्रसराभवत् ॥ ब्राह्मण्याचारधाराचरणरसवशो हंसरूपोऽस्य वंशे काशीनाथाभिधानः समजनि विनतो गोषु च ब्राह्मणेषु । येनानीय प्रयत्नाट्विजचरणरजो मूर्ध्नि विन्यस्तमात्रं पुत्रादेरत्र सिद्धौषधमिव सहसानेकरोगान् जहार ।। सामुद्रके सोऽथ समुद्रकल्पः सामुद्रकाचार्य इति प्रसिद्धिम् । लेभे नृणामाकृतिदर्शनेन फलं वदन् भूतभविष्यति(दादि) । अथ तस्य त्रयः पुत्राः जाताः पितृपरायणाः । राजेन्द्रो राघवेन्द्रश्च महेशश्चेति(हि)क्रमात् ॥ तेषामेव गुणोत्तमः समजनि श्रीराघवेन्द्रः कृती बाल्ये यं समुदीक्ष्य लक्षणयुतं तातोऽनुरक्तोऽभवत् । लेभे षोडशवार्षिकः कृतिमतामानन्दबृन्दाङ्करो भट्टाचार्यशतावधानपदवीं संतीर्णविद्यार्णवः ।। बाल्येऽधीत्य समस्तशास्त्रमभितः सिद्धान्तवागीशतो वागीशप्रतिमो बभूव विजयी वादेषु विद्यावताम् । यस्यारवाद्य सरस्वतीरससुधाधारकसारा गिरो मूर्धान्दोलनशालिनो हि कवयो गायन्ति नित्यं यशः ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy