SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8448 A DESCRIPTIVE CATALOGUE OF तत्र चामुण्यायणस्यापस्तम्बशाखाध्यायिनो वाधूलकुलतरुपल्लवस्य कवितावल्लभस्य पञ्चमोऽश्चितकीर्तेरुपाध्यायगोकुलनाथपौत्रस्य कृष्णसूनोः पुत्रो भहरङ्गनाथस्योद्दण्डकावरित्युदारमभिजन्म । स किल विधिवदुपासिततीर्थादधिगतसकलावद्यो दिक्षुर्दिगन्तराण्यान्ध्रकलिङ्गकर्णाटानाटीक्य केरलानवतीर्णो मज्जन्महानदीषु पश्यन्देवतास्थानानि सेवमानः सज्जनानभिनन्दन्नन्तर्वाणीनिदमेव ताम्रचूडकोडनगरमाढौकत । आढौक्य च आस्थानमध्यगतमुद्धतसौविदल्लभ्रूक्षेपचोदितनमच्चतुरन्तवीरम् । श्रीविक्रमं चतुरवारवधूकराब्जव्याधूतचामरमलोकत लोकनाथम् ॥ अस्तौष्ट च प्रत्यर्थिभूमिपालप्रतापधर्मोत्थपुष्कलावर्त । विश्वम्भराकुड्डुम्बिन विक्रम ! विश्वैकवीर ! विजयस्व ॥ देवोऽपि परिसरवर्तिकोविदवदनाकृष्टेन विघटमानकमलदलशीतलेन कटाक्षेण सम्भावयन्नीषदुन्मिषितमन्दस्मितसुन्दरवदनेन्दुः सादरमिदमादिक्षत् । श्रीमन्नुद्दण्डविद्वञ्छृणु वचनमिदं मामकं कामदोग्धी वाणी नाणीयसी ते खलु परिषदियं जाग्रती वाग्विलासे । तस्मादाय सम्यक् प्रकरणमतुलं मल्लिकामारुताख्यं किञ्च व्यञ्जमुसार्द्र विरचय विधिना सत्कवे सत्क्रियां मे ॥” इति ।। सूत्र--आर्ये सत्यमिदमाश्चर्यकरमेव ।। कविहृदयेष्वनसूया करतूरीकर्दमेषु मालिन्यम् । अक्षारता पयोधाववनीपाले च पाण्डित्यम् ।। कृतमेव तन्मीमांसाचक्रवर्तिना महर्षिपुत्रेण महेश्वरेण । " वेदे सादरबुद्धिरुद्धततरे तर्के परं कर्कशः । शास्त्रे शातमति(:) कलासु कुशलः क(I)व्येषु भव्योदयः । श्लाघ्यः सत्कवितासु षट्स्वपि पटुर्भाषासु स त्वं क्षिती सर्वोद्दण्डकविप्रकाण्ड ! ददसे कस्मै न विस्मरताम् ॥" मल्लिकामारुतं नाम मनस्संवननं नवम् । प्रयुङ्महे प्रकरणं प्रसीदन्तु सभासदः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy