SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8848 किंच बिम्बोष्ठे तव नाञ्जनं पुनरयं भृगस्त्वदास्याम्बुजास्वादाय स्तिमितोऽथवा जतुमयी मुद्रा कृता नीलया । इत्थं राधिकयोदिते सुमुखि ते दृक्कान्तिसंक्रान्ति नैल्यं नान्यदिहेति तां सरभसं चुम्बन् हरिः पातु नः ॥ (नान्द्यन्ते) सूत्रधारः- (सहर्षम्) आदिष्टोऽस्मि भूमण्डलमण्डनायमानतुण्डीरमण्डलवास्तव्यसमस्तजनाश्चर्यतपश्चर्याफलस्य, फलभरावनम्रमाकन्दक्रमुकपनसनालिकेरपालिकेरितमन्दपवनकन्दलवलनतरलितबहलवकुलकुन्दकुटजमन्दारकोविदारकदम्बमुखतरुकदम्बनिबिडतटयुगलवेगापगामृदुलतरतरङ्गतालवृन्तप्रशमितरतिरभसपरिश्रमपरिसरनिकुञ्जमखुल • भवनविहरणरसिकतरुणमिथुनसमाराधितमन्मथदेवतायाः, भूतलायतीर्णदेवाधिराजसेवाभिलाषसमागतसुरपुरसुन्दरीबृन्दरीतिहरनिपुणरमणीजनशरणीकृतरमणीयकर - णीयविमानसमानलसमानरत्नसौधायाः, बहलमृगमदपरिमलकृतनिगलपुष्पंधयनीरन्ध्रगन्धापणकृतविहा(ह)रणतरुणबृन्दविशङ्कटशृङ्गाटकायाः, विटविदूषकपीठमर्दसंचारसंमर्दमनोहरायाः, काचीनगर्याः निरुपमालङ्कारनायकमणेः, चतुर्भुजस्तम्भीगम्भीरवक्षःस्थलवलभीपरिष्कारपञ्चशरविद्यासिद्धान्तस्य, शतधृतिहयमेघहव्यसुरभिलाधरपल्लवस्य, निस्तुलहस्तिगिरिमस्तवास्तव्यस्य, भगवतो देवराजस्य वसन्तयात्रोत्सवसेवासमवेतैः निखिलविद्याविशारदैः पारिषदैः । यदुत शृङ्गाररसजीवातुः श्रतिजिह्वारसायनम् । . कालानुरूपं भवता रूपकं रूप्यतामिति ।। किं तादृशं रूपकम् ? (स्मृतिमभिनीय) अस्ति हिशिथिलितविमताधैः श्रीनिवासार्यनामा सकलगुणसरस्वानत्रिगोत्रावतंसः । समुदितनिजकीर्तिस्वर्नदीहंसहेलां वहति किल यदीयं वाजपेयातपत्रम् ॥ किंच तर्कातर्किप्रचुरकुहनानल्पजल्पप्रसङ्गक्रीडोदश्चत्प्रतिभटशिरोधकुटाकपादः । प्रौढः श्रीमान्सरसकविताराज्यपट्टाभिष(पि)क्तो मान्यो यस्य प्रथितविभवो मातुलस्तातयायः ॥ 824 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy