SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8341 नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः । विकटोऽक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥ किं कवेस्तस्य काव्येन सर्व वृत्तान्तगामिनी । कथेव भारती यस्य न व्याप्नोति जगत्रयम् ॥ उच्छासान्तेऽप्यखिन्ना ये येषां वक्रे सरस्वती । कथमाख्यायिकाकारा न ते वन्द्याः कवीश्वराः ॥ कवीनामगलद्दो नूनं वासवदत्तया । शक्तयेव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ पदबन्धोज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते ॥ अविनाशिनमग्राम्यमकरोच्छातवाहनः । विशुद्धजातिभिः कोशं रैनैरिव सुभाषितैः ॥ कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो. लेभे भासो देवकुलैरिव ॥ निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसार्दासु मञ्जरीष्विव जायते ॥ समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना । हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ आढ्यराजकृतोच्छासैहृदयस्थैः स्मृतैरपि । जिह्वान्तः कृष्यमाणेव न कवित्वे प्रवर्तते ॥ तथापि नृपतेर्भक्तया भीतो निर्वहणाकुलः । करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम् ॥ सुखप्रबोधललितां सुवर्णवटनोज्ज्वलैः । शब्दैराख्यायिका भाति शय्येव प्रतिपादकैः ॥ दर्शयन्ती मुखे खेदं प्रस्खलन्ती पदे पदे । कथंचिन्नीयते शय्यां कथा नववधूरिव ॥ * वृत्तानुगामिनी. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy