SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8813 किञ्च ब्रजौकसः केचन तत्कुलीना महौजसोऽदभ्रमहीध्रसाराः । मञ्जीरवाट्यां च मणीतटाके निजोत्तमाङ्गे व्य(न्य)वसन्नुदाराः ॥ अयनपुरमयासीत्तेषु कश्चिद्यशस्वी नयविनयदयाघीसूनृतौदार्यधन्यः । सुरनरभुजगानां विष्टपान्तर्निविष्टा जयति महितकीर्तिर्यस्य गोविन्दनाम्नः ॥ बभूव तनयस्ततो विजयनन्दनो नामतः सुभूषिततनू रतेः प्रिय इवाभिरूपाकृतिः । स्वभरिव विभूतिमान् विबुधपद्मपद्मप्रियः प्रभूतगुणभूर्भुवः प्रभुरुदारशक्तिस्सुधीः॥ स च कदाचिदुन्मुक्तशैशवः सवयोभिः गोपकुमारैस्सङ्क्रीडमानो विजयनन्दनो नन्दनन्दन इव गोविन्दनन्दनः प्रभूतयवसोदकं सकौतुकं कश्चिदपि वनोदेशमवगाह्य गाश्चालयन् अद्भुतशीलः परमखिलभूमण्डलविश्रुतैरधिगतसर्वश्रुतैः व्याकृतसर्वश्रुतिभिः श्रुत्यन्तदेशिककवितार्किककेसरिसतीर्थैः विद्यारण्यनामभिराचार्यवयैस्तूर्णंमभ्यर्णमुपागतां परिगतभद्रातरङ्गिणीझरी सुभगङ्करी विजयनगरी प्रमुदितैस्साम्राज्यपदाभिषिक्तं पदानतनिश्शेषविश्वम्भरेश्वरश्चिरमुर्वी धर्मतः पालयामास । भो भो गोविन्दसूनो निरुपमयशसः पञ्चपञ्चाभिरूपाः भूपाः पञ्चेषुभूया(ता)स्सकलनृपनुतास्संभविष्यन्ति वंशे । । कश्चिच्चेटीतनूजस्तदनु पदमिदं कृष्णरायामिधानश्रेष्ठान् पञ्चाग्रजातान् प्रसभमुरुबलो निर्गुदन् प्राप्स्यतीडयम् ॥ ते तु रामादयः पञ्च शूरा वीरनृसिंहजाः । सामन्तराजतां प्राप्य निवत्स्यन्ति चिरं भुवि ।। रामरायाभिधो यस्तु त्वत्त एकादशो नृपः । स एव वंशकर्ता ते भविष्यति महायशाः ॥ इदमाकर्ण्य वचनं विद्यारण्यगुरोर्मुखात् । हृष्टः शुश्रूषमाणस्तमासीद्विजयनन्दनः ॥ 622-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy