SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8128 À DESCRIPTIVE CATALOGUE OF हीपेषर्धतृतीयेषु विहरन्तो जिनाधिपाः । नृदेवखचराधीशैभूषिता गणनायकैः ॥ ये श्रीसीमन्धरस्वामिप्रमुखा धर्मवर्तिनः । मूर्धा नमामि तान् विश्वान् मोक्षमार्गप्रकाशकान् । एते तीर्थङ्कराश्चान्ये त्रिकालगोचरा मया । वन्दिताः संस्तुताः सन्तु मे प्रारब्धार्थसिद्धये ॥ इत्यभिष्टुत्य तीर्थेशान् सिद्धांश्च सद्गुरून् परान् । स्वेष्टान् मङ्गलकर्तृश्य नत्वा मानल्यसिद्धये ॥ स्वप्रारब्धार्थसिद्ध्यर्थ विघ्नहान्यै शिवाप्तये । स्वान्येषां हितमुद्दिश्य करिष्ये कर्महानये ॥ चरित्रं पावनं धन्यकुमारस्य शुभावहम् । वैश्यसत्कुलदीपस्य सर्वार्थसिद्धिगामिनः ॥ येन श्रुतेन भव्यानां हीयते रागशात्रवः । वर्धन्ते शुभसंवेगशमादिगुणराशयः ।। अथ द्वीपोऽस्ति जम्बाख्यो जम्बूवृक्षोपलक्षितः । लक्षयोजनविस्तीर्णो वृत्ताकारोऽधिवेष्टितः ॥ मेरुहेममयो भाति तन्मध्येऽतीव सुन्दरः । लौकयोजनोत्तुङ्गो जिनालयाप्सरोगणैः ॥ मेरोदक्षिणदिग्भागे राजते क्षेत्रमुत्तमम् । तन्मध्ये नाभिवद्भाति महत्युज्जयिनी पुरी । विद्भिश्व धर्मिभिस्तुङ्गचैत्यालयैर्महोत्सवैः ॥ इत्यादिवर्णनोपेतनगर्या स्यान्महीपतिः ।। प्रताप्यवनिपालाख्यः पुण्यधीधर्मवत्सलः ॥ धनपालाभिधो वैश्योऽवसत्तस्यां शुभाशयः । तस्य प्रभावती भार्या पुण्यलक्षणभूषिता ॥ सप्त पुत्रास्तयोरासन् देवदत्तादयोऽखिलाः । परस्परमतिस्नेहाः समाना गुणलक्षणैः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy