SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8296 A DESCRIPTIVE CATALOGUE OF गुणशालिनं कवितार्किकसिंहत्वादिना निखिलभुवनेष्वनितरसाधारणप्रसिद्धिजुषं निगममौलिगुरुं तदवतारकल्याणगुणादिवर्णनेन स्वजन्मसाफल्याय तुष्टषुस्सकलकाव्येषु गद्यपद्यात्मकस्य काव्यस्य " गद्यानुबद्धरसमिश्रित - " इत्यादिश्लोकोक्तरीत्या हृद्यतासम्पादकतया केवलपद्यप्रबन्धापेक्षया चम्पुप्रबन्धस्य प्राशस्त्यं मन्वानः पूर्वोक्तगुणशालिस्वाचार्यविषयकस्य चम्पुरूपप्रबन्धस्य चिर्कीर्षितस्य विनध्वंस पूर्वकपरिसमाप्तिमभिलषन् “ आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् " इत्यालङ्कारिकी मुद्रामनुसरन् पुरुषकारभूतपद्मापदपङ्कजं प्रार्थयते यद्भक्तिमिति । यद्भक्तिं यस्मिन् पद्माचरणाम्बुजे । भक्ति स्नेहपूर्वकानुध्यानम् । परिचिन्वताम् असकृदावर्तमानानाम् । जनानामिति शेषः । " स्नेहपूर्वमनुध्यानं भक्तिरित्याभधीयते” इति स्मृतिः । आवृत्तिरसदुपदेशादिति सूत्रं चात्र प्रमाणतयानुसन्धे यम् । लक्ष्मीः सम्पत् । अनुकलम् प्रतिक्षणम् । जरीजृम्भते अतिशयेन वर्धते यहा । अनुकलं परिचिन्वतामिति योजना । निरतिशयपुरुषार्थरूपा । यद्वा । भक्तिः सेवा, भज सेवायामिति धातोः । तां परिचिन्वतामित्यर्थः । लक्ष्मीः सम्पत् । यद्वा । अनुकलं वेदादिसकलविद्यास्वित्यर्थः । “अव्ययं विभक्ति-" इत्यादिना वीप्सायामव्ययीभावसमासः । गोस्त्रियोरित्युपसर्जनहूस्वः । नाव्ययीभावादित्यादिना तृतीयासप्तम्योरित्यादिना वा विभक्तरादेशः । लक्ष्मीः विजातीयसम्पत् । वावदूकत्वशोभेति यावत् । “ शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिति गद्यते” इति निखण्डु(घण्टु): । "ऋचस्सामानि यजूंषि । सा हि श्रीरमृता सताम्" इति श्रुतिः ॥ . - वेदान्तविद्यागुरुसूक्तिगङ्गा निगमान्तगुरुसूक्तिरेव गङ्गा यदुक्तिवर्षेः परवस्तु. वेङ्कटगुरुवाग्वृष्टिभिर्विषड्मखी सर्वदिग्व्यापिनी प्रकाशते प्रसिद्धगङ्गापेक्षया वेदान्ता. चार्यसूक्तिगङ्गाया विषग्दिग्व्यापनेन प्राशस्त्यं प्रतिपादितम् । कुलदैवमयं ममेति शेषः । . अनन्तसूरेरबला तत्पनी । बुधानां विदुषाम् । सन्तोषाय गर्भ बिभराम्बभूव । भृभरण इत्यस्माद्धातोलिट । भीहीत्यादिना आम् लुवद्भावश्च; लिटो लुक् लुचद्भावात् धातोईित्वम् । भृञामिदिति अभ्यासस्य इत् । कथमित्याशङ्कयाह कवेरित्यादिना । कवित्वशीलस्य सूक्तिरिव रसालङ्कारादिभिस्सहृदयहृदयङ्गमम् अर्धचन्द्रमण्डलीकलासमूहं यथा बुधानां हर्षायेत्युभयत्रापि सम्बध्यते तथैवेति पूर्वेणान्वयः End: For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy