________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8278
A DESCRIPTIVE CATALOGUE OB
ब्रह्मर्षि वनार्यो निरुपमचरितवत्सगर्भो गरीयान् पायान्मत्तातपादः कमलभवनिभो वत्सलो मामपायात् ॥ श्रीमद्वेतण्डभूभृत्परिबृढकनकोत्तुङ्गघोटप्रदाता । वेधोजेतेन्दुपुर्यालयविभुशिबिकादानलब्धेन्दुकीर्तिः । लोकाचार्यप्रतिष्ठाकरणाविभवभृत्तत्समो वेङ्कटार्यों वाधूलाग्र्यः प्रसन्नो जयतु मम गुरु विडाम्नायदाता ।। यः पातञ्जलसूक्तिजालजलधेर्नेता महानाविको यः ख्यातो हरिवासरव्रतपरो ब्रह्मर्षिचर्यानिधिः । यो मे कल्पयति स्म वत्सलतया शब्दागमे पाण्डिती जीयान्मामकसोदरीपतिरयं श्रीयज्ञनारायणः ॥ श्रीभाष्यादि विधाय तर्कगहनं तद्भावमुद्भावयन् भूयो भूमितले कृतावतरणः श्रीशुद्धसत्त्वाद्गुरोः । श्रीमान् लक्ष्मणदेशिको विजयतां यहीक्षया रंहसा जिह्वारङ्गतटीमटीकत चतुश्शास्त्रीनटी मामिकाम् ॥ अवष्टभ्य प्रज्ञानिकषदृषदं सोपनिषदं दृढामेनां नावं गुरुपरिषदं सद्गुणवतीम् । प्रवत्तोऽहं लब्धू परमपुरुषानुग्रहमयं महार्घ माणिक्यं यतिपतिचरित्राब्धिजठरे ॥ श्रीरामानुजदेशिकाशिशरणस्तन्नामभूषोज्वलस्तत्सागऱ्याविभूषणेद्वविततश्रीभावनार्यात्मजः । श्रीरामानुजयोगिपुङ्गवमतोद्धारप्रियंभावुकस्तच्चारित्रपवित्रचम्पुरचनाकौतूहली सम्प्रति ॥
अस्ति किल . . . . . . . . अनवरतपठ्यमानब्रह्मघोषाभेटीविदीर्यमाणदिग्वप्राणां वसिष्ठादिब्रह्मर्षिनिष्ठाधरीकरणगरिष्ठश्रेष्ठाचारानुमानविदीप्राणां
भक्तानुरागवता भगवता शिरोभूषणवती धरणीरमणीशिरोमणिरीनिमती श्रीमती महाभूतपुरी नाम नगरी ।
For Private and Personal Use Only