________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8279
श्रीकेशवाङ्गिसरसीरुहचञ्चरीकस्तन्नामधेयवररत्नकिरीटधारी । धन्याग्रणीधरणिभृन्माणमौलिसेव्यस्ता यायजूकतिलकः पुरमध्यवात्सीत् ।।
श्रीमद्भूतपुरीशिरोमणिरिलागीर्वाणचूडामणिः श्रीहारीतकुलाब्धिकौस्तुभमणिः श्रीकेशवार्याग्रणीः । श्रीमत्कैरविणीधुरीणचरणाम्भोज(ति)पूतात्मना निर्मायाखिलकर्म काञ्चिदकरोदिष्टिं च पुत्रेच्छया ॥
Colophon:
इति श्रीवाधूलकुलकलशजलनिधिकौस्तुभोभयवेदान्ताचार्यसाम्राज्यपट्टाभिषिक्तकल्याणवल्लीकल्याणवेदपादरामायणाद्यनेकप्रबन्धनिर्माणधुरीणश्रीमद्रामानुज - देशिकसार्वभौमचरणारविन्दचञ्चरीकेण तत्कृपालब्धसकलविद्यावैशयेन तत्सागर्म्यविभूषणब्रह्मर्षिचर्यभावनाचायविबुधवयतनूभवेन रामानुजदासेन विरचिते श्री. रामानुजचम्पुप्रबन्धे अवतारोपोद्घातो नाम प्रथमस्तबकः ॥
आरदोऽथ कृपामयीं दृढतरां नावं स नारायणः संसारार्णवममचेतनवपुश्शुक्तिस्थमुक्तामणीन् । आदातुं कुतुकेन नाविक इव श्रीकेशवार्याध्वरी प्रेयस्या जठरं निनाय पिठरं भोगीन्द्रमुद्यद्गुणम् ॥ दिक् प्राचीव पयोजिनीपरिबृढं तेजोनिधि राघवं कौसल्येव गुणाकरं भवभिदं कृष्णं यथा देवकी । भूदेवी जनयाम्बभूव तनयं भेत्तुं तमोमण्डलं धर्म धारयितुं नराहितमपाकर्तुचे पृथ्वीतले ॥
End:
कदाचित् किमिकन्धरजनिष्यमाणव्यथाव्याजेन प्रतीची ककुभमभिप्रतिष्ठास. मानो यादवाचलशिखरालङ्कारमणिं श्रीनारायणं डिल्लीवासप्रियरामाप्रियसमानयनतन्तन्यमानोत्सवपरम्परया पूजयन् द्विपञ्चाशन्नामधेयान् स्वान्तोवासिनस्तदन्तेवासिनो वितन्वानस्तदनुज्ञया श्रीरङ्गराजधानीमभ्येत्य, श्रीरङ्गनाथं प्रणम्य, श्रा. महापूर्णतनयं सपधिगतविनयं पुण्डरीकाक्षनामधेयं समाश्वास्य, कूरनाथमालिङ्गय, श्रीवरदराजस्तवमहिम्ना तमेनमपाङ्वीक्षणसनाथमारचय्य, श्रीशैलपूर्णश्रीमहापूर्णा
620
For Private and Personal Use Only