SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8277 साक्षाद्रामानुजार्योऽपर इव विमताटोपधिक्कारधीरः श्रीमान् रामानुजार्यो घनवरदगुरोरात्मजस्सन्निधत्ताम् ।। वीक्षारण्यक्षमायां विरचितवसतिरिरामोत्सवाय प्राप्तानां देशिकानां निगमयुगलवागर्थसन्देहभेत्ता । श्रीरङ्गाचार्यसूनोर्घनवरदगुरोरात्मजालक्ष्मणार्या. जातः प्रायः प्रसन्नो मम वरदगुरुर्वर्धतामृद्ध कीर्तिः ॥ अमुष्य सहजो जगत्प्रथितकल्पनापण्डितः समस्तविबुधेडितश्शरणमातृनामा गुरुः । पितामह इवापरो मम पितामहो मे मुखे हृदम्बुरुहमाश्रयन् प्रथयतु प्रियां भारतीम् ।। चतुर्णा वेदानां परिणतिविशेषाश्चतसृणां कलानामाकारा इव च लसमानाश्शुभगुणाः । तनूजाश्चत्वारो रघुकुलकुमारक्रमभृतो बभूवुर्वाधूलप्रवरशरणाम्बाह्वयगुरोः ॥ श्रीवत्साङ्कार्यकल्पः श्रुतिशिखरयुगाकल्पशिल्पोज्ज्वलोक्तिः कल्पान्तस्थायिकीर्तिनिरुपमकविताकल्पनाकल्पशाखी । आचार्यो ज्येष्ठतातो मम सकलविधो बान्धवो लोकबन्धुः कारुण्यक्षीरसिन्धुः शुभगुणमणिभिर्बन्धुरो भासतां मे ।। तत्सोदर्यः प्रसिद्धः प्रतिकथकघटाटोपगाढान्धकारप्राग्भारन्यक्कियोद्यत्तरणिसरणिभृद्वेदभाष्यार्थवेदी । श्रीभाष्यव्याक्रियायां वरदगुरुसमो राघवो वीरपूर्वो वाग्धाटीपाटवं मे घटयतु कृपया हेमवल्लीशभक्तः ॥ तत्सागाभिरामश्रुतिधवलगरुत्पुण्डरीकायितास्यः श्रीमद्रामायणार्थप्रवचनचतुरः तन्मुखाद्देशिकों मे । रङ्गेन्दोर्वेदपारायणकरणचणो भाप्यपाठी पटीयान् श्रीरामायः प्रहृष्टः प्रणयजलनिधिः पालयेन्मां कृपालुः ॥ शब्दब्रह्मामृताम्भोनिधिलहरिपरीवाहपर्यायसूक्तिः वेदान्तद्वन्द्वचिन्तापटुतरधिषणस्सर्वशास्त्रप्रवीणः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy