SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8278 ब्रह्मादिभिरपि दुरासदैः सदैकरूपैर्यानवरैस्सह सर्वतः क्रीडता भगवदनुकूलैकमोगेन महात्मवृन्देन वन्दितं दिव्यावरणशतसहस्रालङ्कतं वैकुण्ठनगरम् । अयि प्राणवल्लभे, पुरा खलु निखिलनिर्जरदुर्जयदैत्यदानवसंमोहाय लीलाविभूतिविद्धये निबद्धमिदम् ।। सकलबद्धसमुद्धरणाय कमप्युपायं निःश्रेयसदायकं निरपायमारचय्य परित्रातुमर्हसीति भुवनजननी परमपुरुष प्रार्थयामास । प्रिये जगत्पालनलालसे ममापि परिखिद्यते चेतः । तदन्तरा भवत्यापि साधु समालोचितम् । तत्तदुचिताधिकारोपायमेव करिष्यामीति विहङ्गसैन्यपुङ्गवप्रमुखान् परिजनानाहूय भगवानिदमवादीत् । भो भोः सेनाधिनाथादयः पाषण्डकुदृष्टिजनसङ्कलकलङ्कितान् देहात्मभ्रममोमुह्यमानानुज्जीवयितुं वसुन्धरायां सत्यव्रतक्षेत्रमल्लमैलापुरपुष्पप्रभृतिषु ताम्रपर्णीप्रमुखपुण्यतीर्थतटेषु तत्तद्वनेषु समुदीर्णा यूयं अथ कदाचित् द्वापरान्ते ह्याश्वयुजमासि श्रोणादिषु त्रिषु भेषु शुभेषु काञ्चीपुरसमुदश्चितहेमाम्बुजाख्याविख्यातसरसीसरसीरुहात् पाञ्चजन्यांशेन सरो नाम । * Colophon: * End: इति श्रीशैलधनगिरिवंश्येन लक्ष्माम्बागर्भशुक्तिमुक्तामणिना वेङ्कटसुधीमणिसूनुना श्रीमद्राजगोपालमुनिवरप्रसादसमासादितवेदान्तविद्येनाहोबलसूरिणा विरचिते यतिराजचरित्रे चम्पुप्रवन्धे प्रथमोल्लासः || विष्णोर्दिव्यनिकेतनेषु भगवद्भक्तिस्पृशामालये. ध्वश्रान्तं निगमान्तमी(मो)दनवतां वाचां मुखेषु स्थितः । नित्यं मङ्गलमस्तु ते जय जयेत्याराधितो भक्तितः श्रीमानस्तु समस्तचिन्तितमनःकामाय रामानुजः ॥ Colophon: इति अहोबलसूरिणा विरचिते यतिराजचरित्रे चम्पुप्रबन्धे षोडशोल्लासः ।। अथ कदाचित् निशायां व्यतीतायां रङ्गनाथप्रबोधविषयविरचितपद्यपठनरवमुखरहरिन्मुखेषु वैतालिकेषु गोपुरकवाटविघटनघलघलात्कृतबधिरेषु सकलजनमन्दिरेषु पात्रावशेषितफलपायसभक्षणदक्षेषु पञ्जरपक्षिषु For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy