________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8272
A DESCRIPTIVE CATALOGUE OF
Beginning:
वन्दे जगत्कन्दलकन्दमिन्दुकुन्दाभमन्दस्मितमिन्दिरेशम् । वन्दारुमन्दारम . . . . . दैवतसार्वभौमम् ।। प्रत्ययं सततानुभूतमपि यत्प्राचीनवाचां शिरःपालीष्वद्धतधाम सर्वसुदृशां प्राणप्रियंभावुकम् । प्रत्युप्तं क्षितिभूसुवर्णलतिकाभाव्योरसि श्रीपदं प्रलं किश्चन राजरत्नमतुलं प्रायस्तनोतु श्रियम् ।। अकारि कस्मैचिदधर्मयोगाद्धिरण्यदानं हि पुरा मयेति । धर्मेण यः कर्बुरगोत्रदानं चक्रे बुधेभ्यश्शरणं स नोऽस्तु || भिन्द्यादवन्ध्यमान्ध्यं मे मन्दमेधान्धकारजम् । गन्धर्वकन्धरं धाम शरत्कन्धरबान्धवम् ॥ व्याप्तोऽपि सर्वत्र नतावलीषु सद्यो यदालोकबलादुदारम् । दयारसं मुञ्चति नीलमेघः तामाश्रयेऽहं चपलाभिरामाम् ॥ चिरत्नवाचाचिकुरान्तरालं सिन्दूरितं यत्पदपद्मभासा । कल्लोलिनीवल्लभगर्भशुक्तिमुक्तामतल्ली मुदमातनोतु ॥ मामा जनेर्दुरितदूषितनीचभावं रामानुजो मुनिरसावुररीकरोतु । नामावधूतनतलोकसमस्तशोकस्थेमा रमापतिवितीर्णविभूतियुग्मः ।। दद्यावेदशिखागुरोर्मम मतिं हृद्यानवद्या गलन्महीकारसधोरणी मधुलिहाहङ्कारहुङ्कारकृत् । सन्ध्याकालनटीभवद्भवजटाजूटीकुटीरोदरत्वङ्गद्गाङ्गझरीपरीभवकरी गुर्वी गिरां वैखरी ॥ पूर्वाचार्यकथासुधाझरपदास्वा(द)प्रदानप्रथां विज्ञप्तिं मम तत्पृषद्विषयिणीमङ्गीकुरुध्वं बुधाः । क्षीराम्भोनिधिशायितोऽपि भगवान् भक्तया जनेनार्पित क्षीरं पत्रपुटीमितं न किमुपादत्ते दयालुर्हरिः ॥ आदौ सरश्शठरिपुप्रमुखावतारान् नाथार्ययामुनमुनिप्रवरप्रभाव।।
रामानुजस्य चरितं निपुणं भणामि हृद्यैरवद्यविमुखैरथ गद्यपये। अस्ति खलु चतुर्दशभुवनात्मकादण्डादुपरि परस्तात्तमसः कार्यजातीत्य शुद्धसत्त्वे सुखाकरे दिवाकरादिविरहेऽप्ययुतादित्यविद्योतिते
For Private and Personal Use Only