SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. .8269 प्राचां कवीनां सति च प्रबन्धे वाचासु मे प्रीतिमयन्ति सन्तः । वृद्धासु पूर्व विहितश्रमाणां मुग्धासु किन्नैव भवेप्रमोदः ॥ सूक्तिः कदर्यैर्मम दूषितापि कीर्तिं भजन्ते(जेत) स्वयमेव लोके । इन्दिन्दिरैः केवलदूषितापि किं निन्द्यते चम्पकपुष्पमाला | सङ्घः सतां मदिरमातनोतु सङ्घर्षणात्केवलमेव लघ्वीम् । तथापि सा सौरभशालिनी स्यात् तथाविधा गन्धशलाकिकेव ।। व्याधूतपाप्मा पुरि पद्मयोनेः वाधूलवंशार्णवपूर्णचन्द्रः । अप्राकृतो वेदपुरीशयज्वा विप्रावतंसः स्वयमाविरासीत् ॥ उद्दण्डो दण्डनीत्यामपि फणिभणिती चण्डकण्डूतिजिह्वः प्रह्वः प्रौढः प्रकाण्डप्रबलमतितमस्तोमनिम्तोमसोमः (१) । स्वातन्त्र्यं सर्वतन्त्रेऽप्यधिकमधिगतो वेदवेदान्तनिष्ठः किञ्च प्रागल्भ्यलभ्यं भवति भुवि यशो यत्कृपोपज्ञमेव ॥ तन्तन्यमानेन तपश्चिराय निष्ठा वसिष्ठस्य कृता बहिष्ठा । पुण्यैरगण्यैस्सुलभेतरोऽपि साक्षात्कृतो येन शशाङ्कमौलिः ॥ पाथोरुहप्रबलसौरभभारधुर्यैः साधोरमुष्य विदुषः कविताविशेषैः । आधोरणात्तसृणिभिः कविकुञ्जराणां वेधोवधूरकृत मौलिविधूननानि ॥ तनयस्तस्य सम्पन्नविनयः शङ्कराज्ञया । विरिञ्चिपुरनाथस्य चरितं कुरुते कृतिम् ॥ यल्लाभविशदा वाणी मूकानामपि जम्भते । वीटी तामदिशगौरी चेटीकृतसरस्वती ॥ अथ कदाचिदखिलजननयनानन्दसन्दोहसुलभनैपुण्ये पुण्येतरपुरुषागण्ये नैमिशारण्ये निखिलमुनिजनवरिष्ठमात्मनिष्ठं भगवन्तं वसिष्ठमन्तेवसन्तः तपस्यन्तः सर्वेऽपि मुनयो विनयोज्वला एवमप्राक्षुः । End: एवं प्रभावपरिपाटिकया प्रपञ्चे प्राचन्विरिञ्चिपुरमार्गसहायदेवः । अत्यद्भुतानि चरितान्यवनौ वितन्वन् नित्यं तरङ्गयति मङ्गलमङ्गभाजाम् ॥ Colophon: इति विरिञ्चिपुरनाथचरिते षष्ठाश्वासः ॥ वेदान्तार्थविनिर्णयैकनिपुणो वाधूलवंशोद्भवः श्रीमद्वेदपुरीश्वराध्वरिवरो यं पुत्रमाप्तः शिवात् । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy