________________
Shri Mahavir Jain Aradhana Kendra
8268
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
No. 12336. मार्गसहाय चम्पू:MARGASAHAYACAMPUḤ.
Substance, paper. Size, 11 x 8 inches. Pages, 239. Lines, 20 in a page. Character, Dēvanāgari. Condition, good. Appearance, new. Complete in six Āśvāsas.
A Campukavya describing the holiness of the Saiva shrine dedicated to the worship of Margasahayadeva at Viriñcipuram, a village near Vellore in the North Arcot district. The author is the son of Věda
purisvaradhvarin of Vadhulagōtra. Beginning:
Acharya Shri Kailassagarsuri Gyanmandir
कटस्थलोन्मीलितदानवारये कटाक्षसंरक्षितदानवारये । करोमि कंसाहितमातुलाय ते नमस्कृतिं येन रमातुलायते ॥ अङ्के शङ्करवल्लभस्य पृथुको निःशङ्कमासेदिवानूर्ध्वभावितपुष्करो विजयते विघ्नेश्वरो लीलया । मौलौ तिष्ठति जाह्नवी कथमियं मन्मातुरुच्छ्रायिणी तामुर्व्यामधुनेति रोषपरुषस्सम्पातयिष्यन्निव || शुभाय भूयादिति वाचमादावुदीर्य कुर्याश्ररितं ममेति । योऽन्वग्रहीत्स्वगतः स साक्षात् शुभाय भूयात्सरणीसहायः ॥ अस्तु नः सम्पदे वस्तु निस्तुलायै निरञ्जनम् । यस्य मायाविलासेन प्रपञ्चोऽयं प्रपश्चितः ॥
बालोऽप्यहं सूक्तिनिबन्धने स्यामा लोकनात्सत्कविरम्बिकायाः । शिलापि मुचेन्न किमम्बुधारां कलानिधेः कान्तिलवावमर्शात् ॥ वाणीवेणीसुरभि सुमनस्स्यन्दिमाध्वीकधारा
―
कुल्यातुल्यां मधुरभणिति मामकीनां नवीनाम् । श्रुत्वा श्रुत्वा मुदितहृदयो मौलिकम्पं न धत्ते को वा भावान् सरसकवितावारिधेश्वेदची (चेती) त् ॥ तथाहि
महाकवीनां महिमा न मूढैर्विज्ञायते किन्तु महद्भिरेव । अगाधतामम्बुनिधेर्न नौका मूलं गतो मन्दर एव वेत्ति ॥ श्राव्यं रसज्ञैः सरसार्थकाव्यं पठेदुपश्लोकयतां पुरस्तात् । करेण वीणामवलम्ब्य गानं कुर्वीत कः कासरकर्णजाहे ॥
For Private and Personal Use Only