________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
8267 हैमवतीवाचलसार्वभौमस्य वैदेहीव विदेहवसुमतीजनपतेः शकुन्तलेव गाधिनन्दनस्य कादम्बरीव गान्धर्वधराकमितुः चित्रसेनस्य शमनस्वसेव कलिन्दभूधरस्य समजनिष्ट कन्यका।
सा लक्ष्मणा हि पुरुषोत्तमनित्यसक्ता सहाहिनीशतनया शतपत्रपाणिः । शुद्धान्तमर्हति तवेति निगद्य कृष्णमापृच्छय मौनिरथ धाम जगाम नैजम् ॥
End:
इत्थं निगद्य कृशपाण्डरगात्रयष्टिरानम्रखिन्नवदना तरुणी तवेयम् । नोवाच किञ्चिदथ गद्गदिकागृहीतकण्ठी रमेश रमयाशुतरं वराकीम् ।। एवं गोपनितम्बिनीशतसमादिष्टं निलिम्पाशनोत्कर्षस्वादिमनास्तिकं जनमनोमोदावहं बर्हिणा । भावप्रौढिविभावितं निगदितं नात्मानमस्मार्षिषं
शृण्वन् सम्प्रति बुद्धतावकदशः प्रत्यागमं द्वागथ ॥ शुकनिगदितवाचं राजकन्या निशम्य स्थपुटितहृदया सा मोदखेदादिभावैः । करनिहितकपोला प्रांशुनिश्वासधारोद्गमनचलदुरोजा नैव किश्चिजगाद ॥
मद्रेशानः स्वकन्यां तरुणवरकरामृश्यतारुण्यधन्यामुद्दाहोन्निद्रभद्रां रचयितुमधिकं संभ्रमं संश्रयानः । नानादेशाधिनाथानयनपटुमतीन् प्रेषयन् मन्त्रिवर्यान्
तत्संभारकसम्पादनकृतमहितासक्तिरासीन्महौजाः ॥ Colophon: ___ इति श्रीमदुदयकुलकलशजलनिधिचन्द्रमसः पण्डितमण्डलीमान्यस्य दत्तात्रेयविपश्चितः सुगृहीतनाम्नस्तनयेन गङ्गाधरकविना विरचिते मद्रकन्यापरिणये प्रथमरसोल्लासे पूर्णस्तुरीयोल्लासः ॥
No. 12335. मानवेदचम्पुभारतम्.
MĀNAVĒDACAMPUBHĀRATAM. Substance, paper. Size, 11 X 8 inches. Pages, 218. Lines, 20 on a page.
Character, Dāvanāgari, Condition, good. Appearance, new. Contains Stabakas 6 to 12 complete.
Same work as that described under R. No. 1851 of the Triennial Catalogue, Vol. II, Part I-C, wherein the last two stanzas in the extracts are wrongly attributed to the scribe. By Mänavēdarāja.
For Private and Personal Use Only