________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8266
A DESCRIPTIVE CATALOGUE OF
Complete in four Ullāsas. The meaning of some of the difficult words in the work is given.
A Campukávya describing the marriage between Lord Kršņa and Lakşmaņā, daughter of Bțbatsēna, King of Madra : by Gangădhara. kavi, son of Dattātrēya of Udaya (?) family. Beginning:
कल्याणमव्याहतमातनोतु सव्यानलीलाकृदभूद्गजास्यः । कर्णानिलेनापसृतेऽशुकान्ते यो वल्लभायाः स्मितपल्लवेन ॥ गण्डोड्डीनमदालिनादलहरीशालीनद्वल्लभागाढाश्लेषनिरूढसंमदझरीपोप्लूयमानान्तरः । वाणीमैक्षवमाधुरीमदहरामुद्दामशब्दोल्बणामाकण्ठद्विरदो निरन्तरयतु श्रीकण्ठपाणिन्धयः ।
शस्ता निस्तुलगोस्तनीस्तबकसन्माधुर्यलुण्टाकिनी यत्सारस्वतवैखरी जितसुरस्रोतखिनीचातुरी । मत्या साप्तपदीनमामक(र)गुरो/रीहते यस्य तं दत्तात्रेयगुरुं नमामि करुणाकल्लोलिनीवल्लभम् || आसीदशेषविनुता द्वारवती नाम भूषणं क्षोण्याः । नैलिम्पलोकरीढा चतुरिमसौभाग्यप्रेशला नगरी ।। पुंसो विलाससदनं परमस्यासीजगन्निवासस्य ।
तवर्णनाप्रसक्तौ कस्य कवेर्वा प्रगल्भते वाणी ॥ Colophon:
इति श्रीमदुदयकुलकलशजलनिधिचन्द्रमसः पण्डितमण्डलीमान्यस्य दत्तात्रेयविपश्चितः सुगृहीतनाम्नः तनयेन गङ्गाधरकविना विरचिते मद्रकन्यापरिणये प्रथमरसोल्लासे पूर्णः प्रथमोल्लासः ।।
अशेषजनतानन्दसन्दोहस्यन्दिकामिमाम् । वाचमङ्कुरयामास नारदो वाग्विशारदः ।। श्रीमान् बृहत्सेन इति प्रतीतः मद्राधिपूर्भद्रगुणैकतानः । आस्ते किलाद्याखिलदिग्वधूटीशाटीभवत्कीर्तिरुदारचेताः ॥
For Private and Personal Use Only