________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8124
A DESCRIPTIVE CATALOGUE OF
वादिराजोक्तिचातुर्यमशक्यं ज्ञातुमञ्जसा ।
तथापि वक्ष्ये तच्छिक्षामनुवृत्त्यैव लेशतः ॥ अथानवरतवाजिवदनाराधनलब्धविद्यातिशयः कविकुलाग्रणीर्वादिराजमुनिः स्वज(जन)नमहिमारभ्य स्वसञ्चरितसकलतीर्थक्षेत्रमहिमावलोकनेन समुल्लसितमनःप्रसादस्तन्महिमानुवर्णनलोलुपतया तीर्थक्षेत्रस्तुत्यादिरूपप्रबन्धं चिकीर्षुः प्रारिप्सिताखिलशुभकार्येषु श्रीमन्नारायणगुणानुस्मरणरूपमङ्गलं कर्तव्यमिति स्वान्तोपलक्षितसज्जनान् प्रत्युपदिशति-हरिक्षीराम्बुधेरिति । हे मनः त्वं स्वस्य विष्णुभक्ततया स्वमनस्सदृशसकलविष्णुभक्तमनसाः विहरणयोग्यत्वस्यापि लाभेन ग्रन्थस्य साधिकारिकत्वसूचनाय चेयं सम्बुद्धिः । भवधर्मरिपोः भवः संसारः स एव धर्मः तस्य रिपोः क्षीराम्बुधिरपि धर्मापहारी । अयमपि भवधर्मापहारी ।
See under the next number for the end. Colophon:
इति श्रीमत्कविकुलतिकवादिराजपूज्यचरणविरचिततीर्थप्रबन्धव्याख्यायां गुरुभावप्रकाशिकायां दक्षिणप्रबन्धः समाप्तः ।
No. 12149. तीर्थप्रबन्धव्याख्या-गुरुभावप्रकाशिका. TIRTHAPRABANDHAVYAKHYA : GURUBHAVA.
PRAKĀŚIKĀ. Pages, 132. Lines, 6 on a page. . Begins on fol. la of the MS. described under No. 12147.
Complete. Wants one leaf in the beginning of the Pärvaprabandha.
Same work as the above, but with slightly different readings. It is stated in the colophon that the commentator, Nārāyaṇācārya, was the son of Lakşmīpatibhutta. In a stanza at the end, Vadiraja is said to have composed also Cakramīmāmsă, Yuktimallikā and Mukundalīlā Beginning:
हृन हरण इति धातोर्विपूर्वकाल्लोट् । उपसर्गवशादेव विहरणार्थकत्वं च । हरिचारित्रनिरूपकतयास्य ग्रन्थस्य विषयत्वं सूचितम् । स्मरणे स्वतन्त्रसाध. नत्वान्मनसः कर्तृत्वमुपचारः । हरिक्षीराम्बुधेरित्यनेन सकलतीर्थानां पवित्रीकरणशक्तिरपि हरिसन्निधानादेव द्योत्यते । रूपकमलङ्कारः । पथ्या वृत्तम् ।
अनेन हयग्रीवदयासिन्धोरसहशत्वमुपपाद्य स्वग्रन्थस्यापि असदृशत्वं प्रार्थयते हयग्रीवेति ।
For Private and Personal Use Only