________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8259
By Cidambarakavi, son of Anantanārāyaṇa and grandson of Süryanārāyaṇa of Kausikagötra. He is the same as the author of the Rāghavapāņdavayādaviya (vide 11703 a ate). Beginning:
कल्याणमेधयतु कश्चिदनादिवाचां मौलावजस्रमुखरप्रचुरप्रभावः । आभाति नागमुखतामपि यत्र याते वैचित्र्यशालिनि विनायकताविलासः ।। रु(भ)द्रं करोतु बलरु(भ)द्रसहोदरो वो रुद्रस्य चापजडतस्सुनिरूढशक्तिः । वारां निधौ प्रकटितप्रवरोरुधामा श्रीराम एव सुरसंश्रितपारिजातः ।। आराधितामरगणस्य सुखेन सूर्यनारायणस्य वरकौशिकवंशवाघेः । तारावरस्य तनयस्समभूदनन्तनारायणस्सुतमसूत चिदम्बरं सः ॥ अम्बुद्धिडम्बरकरं बहुवारमम्बामम्बुध्यधीशतनयामपि संप्रणम्य । कम्बुप्रभाव[ञ्च परमम्बुजयोनिकान्तां चम्पुं चिदम्बरकविस्स चरीकरीति ।। स्वेनैव तेन समपद्यत देवसेनावाहायमानविलसत्करवाह . . । स्कन्दामरेन्द्रसदृशो भिदुरास्त्रशक्त्या सोऽभूत्परिक्षतपरक्षितभृत् परीक्षित् ॥
एष किल निशापतिकुलविशेषको मुनिशापतिरस्कृतान्तःपुरादिव पुरन्दरः पुरा कदाचन पुराणपुरुषस्य पादारविन्दगलितायाः
सुपरीक्षितमोक्षोपायं परीक्षितं निरीक्ष्य सविधगतमप्यविधमुनिगणे परिलसितपरिसरभागं भागवतवतंसं भगवन्तं शुकमेवमन्वयुक्त
वंशे यदूनां वरदो नृपाणामंशेन भूमाववतीर्य देवः । किं शेषशायी कृतवान् स कृत्यं किं शेमुषीमन्वद तन्ममेति ।। पराशरस्य स्म तमाह पौत्रः पराशरः क्षेत्रभरातिमूचे । पुरा शरण्याय धराभिरोधपराशरात्पक्षमुखाब्जजाये ॥
Colophon:
इति चिदम्बरस्य कृतौ चम्पुभागवते प्रथमस्तबकः ॥
End:
हंसाधिराजरथपूर्वसुपर्ववाचा ध्वंसाय दुष्टमनसामवतारभाजा। संसारिणामनुसृतिः परमेण पुंसा कंसारिणापि सरसं कलयांबभूवे ।। नवनवकृतिचित्रैः पद्मनाभश्चरित्रैः भुवनमतिपवित्रैः द्वारकाभूनिवासी ।
अवनविरचनायामङ्गिना जागरूको नवनविषयभूमानन्दयामास देवः ॥ Colophon :
इति चिदम्बरस्य कृतौ चम्पुभागवते तृतीयस्तबकस्संपूर्णः ॥
For Private and Personal Use Only