________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8260
A DESCRIPTIVE CATALOGUE ON
No. 12328. भागवतचम्पु:.
BHĀGAVATACAMPUH. Substance, palm-leaf. Size, 15 x 1 inches. Pages, 163. Lines, 8 on a
page. Charaoter, Grantha. Condition, fair. Appearance, old. Complete in six Ullasas.
A work narrating in verse and prose the story contained in the Bhagavata Purana : by Abhinava Kalidasa. Beginning:
कल्याणं नः प्रभूतं कलयतु ललितालापशैलेशबालालीलाजालानुकूला शिशिरकरकलाभानुमालाजटाला । एषा शेषाहिभूषा परिकलितसुधापूरधारानुकारा भद्रा मुद्रा विनिद्रा पुरहरणविधौ कापि कारुण्यपूर्णा ।। प्रालेयाचलभागधेयभवनं कल्याणजालास्पदं जाटाटीरतपःफलं किलकिलल्लीलाशुकाहादितम् । बिभ्राणं परिमौलि कश्चन सुधाधाराधरं सादरं यन्मे भद्रममुद्रमाकलयतामानन्दकन्दं महः ।।
अभिनवपदपूर्वः कालिदासप्रगल्भस्त्रिनयनदयितायाः प्रेमडिम्भस्तृतीयः ।। विरचयति तयैव प्रेरितः प्रेमपूर्व
हरिगुणपरिणद्धं चारु चम्पूप्रबन्धम् ॥ केयं मतिर्मम कि(शि)शोरगभीरवाचः क्वेयं यदूद्वहकथा वचसामभूमिः । तवर्णनेऽपि यतमानहृदः कदापि निर्वर्णितं निशमितं च न साहसं मे ॥ आसीदसीममहिमा महनीयरूपरूपानुरूपचरितस्सुकृताः] प्रदा(धा)नः । राजा परिक्षिदभिधो यदजस्रदाननीरैरुपैति मरुभूमिरनूपभावम् ||
स एष परिक्षिदभिधानो राजर्षिराकर्णितविविधमधुसूदनकथाप्रपश्चः ततोऽपि सौहित्यमधिगच्छन् अधिगतनिखिलनिगमतत्त्वं तत्त्वविदामग्रेसरमुपशमशकलितविषयाभिनिवेशमपरिमितमहिममहितं भगवन्तं बादरायणिमप्राक्षीत् । Colophon:
यस्मिन् शङ्करदारसौरभजरीजृम्भत्कटाक्षच्छटापाताः कल्पलतावितानसुमनोगुम्भप्रियम्भावुकाः ।
For Private and Personal Use Only