SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8263 भारद्वाजकुलामृताम्बुधिविधुश्रीपद्मराजोदितश्रीमद्भागवताख्यकाव्यविवृतिं कुर्वे सुधीचन्द्रिकाम् ॥ श्रीपीठं पीठपुरं पुरन्दरपुरं विहसदधिश्रीभिः । लालस्ति स्वस्तलवास्तव्यस्तुत्यपुरुहूतिकापीठम् ॥ भूयसीः प्रवितरस्फुरनेतुः श्रेयसीयदधितिष्ठति नित्यम् । प्रेयसीमजहदर्थशरीरप्रेयसीकलितकुक्कुटरूपः ॥ राजा राजति तत्र सुधर्मान्वीतोऽमरावतीवदलम् । श्रीरावुकुलपयोनिधिचन्द्रो नीलाद्विरायाख्यः ॥ राज्ञस्तस्य प्राज्ञस्सचिवो लसति बहुदर्शनः कोऽपि । वागीशोऽपि कलाढ्यो द्विजराट चित्रं स पद्मराजोऽपि || तस्यावसरालाख्यस्सार्थाभिख्योऽन्वयोऽजनि हि यत्रत्याः । सर्वे श्रीपतिपरिभुक्तमुक्तमालापरिमलवर्मितदेहाः ।। स कदात्मनि विज्ञाय हरेर्दुज्ञेयतां विभोः । सुकृतार्थ भंव कस्माज्जगतीहेति चिन्तयन् ॥ लीलासादितगोपालबालवेषस्फुरो हरेः । निस्तुलास्तोकसंस्तुत्यगुणरत्नगणाकरम् ।। अशेषोपनिषज्जातसरित्कुलसमाकुलम् । श्रीभागवतनिष्पारपारावारं दुरासदम् ॥ मानसेन मथा सम्यगचलेन प्रमथ्य च । सङ्गह्य तत्समस्तार्थसारभूतं रमाम(प)तेः ॥ कथासुधारसं सर्वान्बुधान्पाययितुं मुदा । विचार्य च त्रयीवाचमृषिवाचां दुरूहताम् ॥ काव्यात्मनश्रोत्तमत्वादुपदेशस्य तत्र(पूर्त)ये । पीयूषपेशलं काव्यं चक्रे मन्दानुकम्पया ॥ हरिपदपङ्कजमूले कृति समर्प्य (. . .) कविरास कृती । तत्कृतिविवृतिप्रसिता बहुकृतिनो वयमपि हरिकरुणातः ॥ प्रभुनिदेशनिभश्रुतिवाक्यतस्सखिवचस्सहशस्मृतिवाक्यतः । प्रियतमालपितोपमकाव्यतस्त्रिविधमधु(त्यु)पदेशकमाहितम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy