SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8254 A DESCRIPTIVE CATALOGUE OF विलसति स्फुटमत्र यथोत्तरं सरसता बहुभावुकतोषिणी । इति कृतं वचसा बहुधा यथा सहृदयाः कलयन्तु हृदि स्वयम् ॥ अथ खलु पद्मराजनामा महाकविः-- " काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे !! परिवठ्ठइ विण्णाणं सम्भाविजइ जसो विसप्पदि गुणा । सुव्वइ सुपुरिसचरिअं किं तज्जेण ण हरत्ति कव्वालावा ।। विश्वोल्लङ्घनजाचिकी वितनुते कीर्तिं विधत्ते श्रियं । हेलाधिकृतयक्षराजविभवां चिन्ताकरं हन्त्यघम् । भगवतः, श्रीकृष्णुस्य शैशवयशस्सारघनसारसुरभितं नवरसभरितमङ्गीकृतशृङ्गाररसशृङ्गं सकलरसिकजनाकलनीयसख्यं बालभागवताख्यं किमपि काव्यमुपचिक्रमिषुः, “ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते" इत्यादिमहाभाष्यकारभाषितमनुस्मरन् , “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ” इति निखिलसङ्ख्यावज्जनसमाख्यासरणिमनुसरन् प्रारिप्सितपरिसमाप्तिपरिपन्थिप्रत्यूहप्रशमनफलविशिष्टं शिष्टाचारानुमित श्रुतिनिबद्धप्रमाणं ग्रन्थारम्भाङ्गलक्षण मङ्गलाचरणमादितः श्लोकद्वये निबध्नन सर्वाशास्यप्रापणदक्षं लक्ष्मीकटाक्षं तावत् प्रस्तौति- श्रिय इति । श्रियः लक्ष्म्याः सम्बन्धी । सः कटाक्षः, सानुग्रहवीक्षणम् । नः अस्माक अस्मभ्यमिति वा । चतुर्थी चाशिषीत्यादिना द्विधा विकल्पनात् । शिवं मङ्गलं स्वेप्सितम् । तनोतु विस्तारयत । तनुविस्तार इत्यस्मादाशीरर्थे लोट् । End: शशास परिपालयामास । उपमानुप्राणितः श्लेषोऽलङ्कारः । अन्ते लक्ष्मीशब्दप्रयोगात्सवे रमणीयम् । महतीति । अयमयः अन्त्यः चरमस्सर्गः । गतः सम्पूर्णोऽभवत् । इतरव्याख्यातम् । हरिणीवृत्तम्-" रसयुगशरैन्सौ नौ स्लौ गो यदा हरिणी तदा” इति लक्षणात् ॥ Colophon : इति श्रीमद्रघुकुलतिलकरमारमणचरणकरुणाधिगतानवद्यनिखिलविद्यावैशद्य - स्य सकलसभाजनकृतसभाजनकभाजनस्य अशेषभाषाविशेषकवितावित्तस्य त्रि For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy