SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8252 A DESCRIPTIVÉ CATALOGUE of श्रुत्यन्तप्रतिपादितार्थसुविदं नित्यं सुमत्यङ्गिरोऽपत्यं सत्यवतीकुमारमपरं श्रुत्युत्करे मुत्करम् । सत्यज्ञानमयं हृदन्तरवसहिड्ध्वान्तविच्छेदनादित्यं वंशमणिं पितामहमहं श्रीरामसूरि भजे ॥ अनूचानादनूचानो गुरोर्वेङ्कटनामकात् । यतोऽभूवमतोऽस्म्यद्य सतस्तस्य गतस्मयः ॥ पुरा रघूणामिव लोकमित्रगोत्रे महीयस्यधिभूमि रामः । अस्मिन् कलौ देवुलपिल्लिवंशे जातो विराजत्यधिकं बुधेन्द्रः । सतो वरिष्ठेष्टभुजोऽत्ययष्ट वेदान् यथेष्टं चतुरोऽध्यगीष्ट । शास्त्राणि शस्त्राणि च योऽतनिष्ट दुष्टप्रतिद्वन्द्विभिदाविधायाम् || निर्दोषरम्यगुणरत्नगणोज्वलाभिवृत्तानुवृत्तमधुरध्वनिमञ्जुलाभिः । नक्तन्दिवं भृशमलङ्कतिभिर्विभान्ती षडर्शिनी ह्यवृत यं सरसोपकण्ठम् ।। षड्भाषाकवितालता तिलकिता प्राग्जन्मपुण्यावलीसंलब्धप्रतिभाविशेषविलसद्वीजोद्भवाधिक्षिति । सञ्जज्ञे यदुपज्ञमेव सरसा सत्काव्यशास्त्रादिका. धीत्यध्यापकतादिसद्गुणनिकाफ्से(कोत्से)कादिसंवर्धिता ।। सन्तुष्टात्पदमूलदत्तकृतिभी रामायणस्यासकत्पाठैरप्यतिमर्त्यवैभवलसत्पट्टाभिषेकोत्सवैः । योऽखण्डाखिलशास्त्रबोधजननी तत्पादभक्तिं स्थिरां यावद्भमितलं निजान्वयभुवां रामादवापद्वरम् ॥ वेङ्कटकृष्णामिख्यस्सङ्ख्यावानथ निखिलबुधाभिष्टुल्यः । तस्माद्धनप्रकाशविभावसुदेवात्समजनि विश्वजनीनः ।। स्फुरदविरतभावभङ्गरम्यं रसरसधिः प्रतिभागुणेन येन । निशितसरससाहितीसुधां सन्मननमथा बहुधा बुधा ममन्थे । वाणी पाणितले मणीमिव गुणी योऽदर्शयत्पाणिनीं काणादीमगदीददीदिवदलं यश्चाक्षपादीमपि । भाट्टे निष्ठुरघट्टकेषु विहृती प्राभाकर चाकरे चास व्यासगवीगवीधुदटवीवाटीष्ववाटीच्चिरम् ।। पुत्रस्तस्य पितामहार्यकलितश्रीरामनामाङ्कितस्तद्भूयिष्ठकृपाहिताखिललसद्विद्योऽनवद्यस्सुधीः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy