SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8227 वामस्तनचलदाननमन्यकुचादानतरलहस्ताग्रम् । आत्मजमवलोकयतोः शिवयोरेकः स्मिताकुरो जयति ॥ सरलीभवकवि(द्वि)लोकनतरलीकृतगोप(भीरुचैतन्यम् ) । करलीलया मुखार्पितमुरलीना(वा)दनपर(महः)सेवे ।। आनन्दायास्तु कालिन्दी पुरस्स्यान्मे सरस्वती । निह्नतां जह्नतनया रंहसा राशिमंहसाम् ॥ काञ्चीमुखानि परमावधिकाशिकानि पुण्यस्थलानि कतिचित्रिवतिभूषणानि। चारूणि योजयितुमग्रजसत्कथायां कुर्वे मतिं गुणतताविव मौक्तिकानि ॥ देशिकस्य कृपया हि देहिनामापतन्ति पुरुषार्थसम्पदः । तत्कथारसनिमज्जनं विना मत्कृतेरनघता कथं भवेत् ॥ कल्याणनिधिमाचार्यकटाक्षं किमिति स्तुमः । ईश्वराणां प्रसादोऽपि यस्यावसरमीक्षते ॥ कालिदासकविमुख्यभारतीपारणाकृतिन एव पण्डिताः । भारती(भाषिते) मम भजेयुरादरं स्वादुसेविन इवाम्लवस्तुनि ॥ फाणिताञ्चितपयस्सहोदरे गद्यपद्यमयकाव्यगुम्भनः(ने) । नाफला (चापलं कि)मपि मे रसज्ञया स्वानुरूपमनयानुभूयते ॥ पद्येषु बाहलयमिह प्रवन्धे मितानि गद्यानि तु तावतापि । अस्त्येव लक्ष्मानुगमो रसज्ञैर्विच्छित्तिभेदाः परमीक्षणीयाः ॥ महाकविसरस्वतीमधुरकाव्यनिर्वर्तने प्रसन्नपदवीक्ष(लिप्स या परमुखानि नापेक्षते । अलङ्कतिविधौ मणेरधिगमाय (किं) गाहते भुवं त्रिदशधाम वा भुजगराजसीमन्तिनी ॥ गद्यम्-अस्ति समस्तविध्यण्डरञ्जनोच्चण्डताण्डवोदश्चितचरणकञ्जनखश - शाकोदयसङ्कोचितभद्रकालीमुखनालीकस्य भ्रमणाटोपपर्यस्तजटाजूटगभस्तिझाटि - घटनामेडिततटित्पुञ्जपिञ्जरिम्णो डामरडमरुडात्कारप्रतिर(व)पूरितामरालयस्य वटवनाभिधाना राजधानी ॥ यस्यां वचस्स्वादिमभिक्षुरिक्षुर्यानप्रशंसाकृत एव हंसाः । वन्दी मुखस्येन्दुरणूदरीणामिन्दीवरश्रीनयनांशुबन्धी || गद्यम्-तत्र जयति पवित्रतरचरित्रातिशयसपत्नीकृतात्रिमुखतपोधनानुभावः, स्वभावविमलमनीषादर्शदर्शनीयषड्दर्शनीरहस्यः, प्रशस्थतरप्रादेशनयशोदेशि - For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy