SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8224 A DESCRIPTIVE CATALOGUE OF श्रीमच्छ्रीशैलपूर्णान्वयकलशपयोराशिराकासुधांशोरासेतुस्यूतविद्वत्प्रवरनुतमतेरण्णयार्यस्य पौत्रः । पुत्रः प्रख्यातधाम्रो नृपसदसि रमावासतातार्यनाम्नः श्रीमानण्णार्यनामा विलसति कविराट् त्रातयज्ञो ह्यभिज्ञः ॥ स च प्राज्ञकृतानुज्ञः प्रज्ञया शास्त्रविस्तरान् । वक्ष्यि तत्त्वगुणादर्शमाचचक्षे मिताक्षरम् ॥ लोके श्लोकाननेकान्विदधति कृतिनः श्रीकरास्तोकपाकानेके गद्यानि हृद्यान्यतिमधुरपदास्वाद्यपद्यानि चान्ये । पार्धाभिव्यक्तमुक्ताफलकलनकनत्पद्मरागोज्वलस्रग्बन्धच्छायानुबद्ध रचयति कविराडेष चम्पूप्रबन्धम् ॥ तत्त्वार्थनिर्धारणबद्धबुद्धी मत्वा स्वमत्या निखिलं च शास्त्रम् । मोदान्मिथचक्रतुरप्रमादं वादं मुदा शाम्भववैष्णवौ हौ ॥ तत्र शाम्भवस्तमसा बुद्धेः स्तम्भनादतथात्वदृक् । वैष्णवस्त्वभवद्भूष्णुः सत्त्वतस्तत्त्ववित्तमः ॥ ततः कदाचन मुदा समुपजाते प्रभाते विरचितस्त्रानः कृतसन्ध्यावन्दका(ना)धनुष्ठानः पुरस्कृतश्रुतिस्मृतिपुराणेतिहासादिप्रमाणानुसन्धानः परमपुरुष भग वन्तमरविन्दनयनमवन्दत स्वसमयनियतनियमनिष्णातः श्रीवैष्णवः ।। End: इति विनिश्चित्य सुनिश्चलप्रश्नः सपत्नविजयकथावलोकसंप्रवृत्तमहत्तराभ्यनुज्ञया विज्ञाततद्विधानविधानुकलनः सुधाशनधुनीप्रमुखनिखिलपुण्यतीर्थसार्थप्रवे. शनसमर्थितप्रकर्षहरिण्यां स्वामिपुष्करिण्यां कृताघमर्षणस्नानं तमेनं श्रीनिवासस्य सन्निधानं प्रापय्य यथाविधि तापादिभिः पञ्चभिः समश्चितैस्संस्कारैः श्रीभागवतस्वाभाविकालङ्कारैरङ्कितं विधाय कर्मन्दिपुरन्दरकृतनिबन्धनबन्धुरानुसन्धानसन्दानितभावः स्वाविष्कृततदनुगुणप्रबन्धनिबन्धनव्यासङ्गाशथिलितनिस्सारसंसारबन्धनः सुखमतिष्ठत ॥ Colophon: मुग्धस्तत्त्वगुणादर्श स्निग्धं कृत्वाण्णयाध्वरी । मुख्यसौख्यपरिष्कृत्यै सख्युर्लक्ष्म्या मुदार्पयत् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy