SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7774 A DESCRIPTIVE CATALOGUE OF निपीयेति । अत्र पुण्यश्लोकनलरूपविशिष्टवस्तुनिदेशरुनवानोनग्रन्थसमाप्तिरित्यभिप्रायेणाह -- स नलः आसीदिति। पृथ्वादीनां स्मरणमपि सकलाभीष्टहेतुः किं पुनः कीर्तनमिति । किंविशिष्टो नलः । महसां राशिः प्रतापानामाश्रयः । यहा महसां तेजसां राशिः सूर्य इव स्थितः । लुप्तोपमा लुप्तीत्प्रेक्षा वा । एतेन स एव तेजस्वी सूर्यवन्नान्य इति व्यङ्ग्यम् । स कः । बुधाः सुमतयः यस्य प्रजापालनरूपाः कथा गोष्ठीनिपीय सादरं श्रुत्वा सुधामपि अमृतमपि तथा नाद्रियन्ते यथा पूर्वममृते यागादिसाध्ये सादरा आसंस्तथा नलकथाश्रवणानन्तरं नेति ततोऽप्यधिका नलकथेत्यर्थः । कथामिति पाठः साधीयान् । शर्करादिमधुरद्रव्यादपि सुधायामादर इत्यपेरर्थः । यदीया कथा अमृतादपि सरसेत्यर्थः । एतेनेन्द्रादीनां त्यागेन नले दमयन्त्यनुरागस्यौचित्यमुक्तम् । यद्दा, बुधाः देवाः सुधान्धसोऽपि ता नाद्रियन्ते ; यस्य कथाः (अ)मृतादप्यतिमनोहरा इत्यर्थः । End: इदानी पण्डितानन्दजननद्वारा स्वकृतेरभ्युदयमाशास्ते--ताम्बूलेति । यः कान्यकुब्जेश्वरात् सकाशात् सकलपण्डिताधिक्यव्यञ्जनं ताम्बूलद्वयं विद्वद्योग्यमासनं च लभते । न केवलं राजपूज्य एव, किं तु यः समाधिषु अष्टाङ्गयोगेषु ध्यानेषु वा विषये प्रमोदानन्दं(र्णवं) परमानन्दं(न्द)स्वरूपं पर वागाद्यगोचरं ब्रह्म साक्षी(क्षात्) कुरुते । न परं पूर्वोक्तगुणविशिष्टो ब्रह्मविदेव, किन्तु यदीयं काव्यं मधुवर्षि अतिसरसत्वादमृतवर्षि न परं पूर्वोक्तगुणविशिष्टोऽतिसरसो महाकविरेव, किन्तु तर्कशास्त्रेष्वपि यस्योक्तयः धर्षिताः पराभूताः परे प्रतिवादिनो याभिस्तादृश्यः । तस्य विद्वच्चकचूडामणेः श्रीहर्षकवेरियं काव्यरचनारूपा कृतिः सुकृतिनां सुधियां मुदे आनन्दायाभ्युदीयात् । कृतिनामानन्दं कुर्वती सत्याकल्पमतिवृद्धि प्राभू(मु)यादित्याशीः । सर्वत्र यच्छब्दइति निर्वाहो गुण एव । अभ्युदीयादिति इण गतावित्यस्य रूपाम् ॥ १५५ ॥ सन्तः सन्तु परप्रयोजनकृतः कल्पद्रुमन्तः सदा यस्मिन्नेव पथि प्रवर्तनपराः सत्कीर्तयश्चापरे । अन्ये निस्पृहसा(णाः)श्रितश्रुतिपथा दीव्यन्तु भव्याशयाः काकन्तः कलहप्रियाः रवलजना जायन्तु(नश्यन्तु) जीवन्तु वा ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy