SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7754 A DESCRIPTIVE CATALOGUE OF सद्रत्नरत्नाकरचारुकाची महीमिवान्यां यदुवंशवन्द्यः । अपालयत्तां विजयाभिधानं नृपः समुद्रोपपदं दधानः ।। अथात्मजं श्रीवसुदेवनाम्नः स्वभ्रातुरत्यद्भुतभक्तिभाजः । निवेशयामास स यौवराज्ये गोविन्दमानन्दितदेवबृन्दम् ।। समुच्चलत्कज्जलकोमल श्रीस्तत्कालजन्मा यमुनाप्रवाहम् । चिच्छेद यो दीप इव प्रभावान तमम्समूहं सुदशोपगूढः ॥ कथं यथावन्ननु चक्रपाणेनिरुच्यते तस्य चरित्रमत्र । वधोद्यतायाः किल पूतनाया यः पीतरक्तोऽपि बभूव कालः ॥ तेनाथ निर्मथितदानव(नाथ)धाम्ना श्रीमान् लघूकृतमहीतलभारभारः । राजा समुद्रविजयः सुतलाभहेतोः किं तन्न यद्रतमसौ चिरमाचचार ।। द्विरद/मद]मदजलार्द्रद्वारमाचारनम्रक्षितिपलुलितहारस्वस्तिकैः स्वस्तियुक्तम्। तरलतनयशून्यं प्राङ्गणं वीक्षमाणो भवनमवनिनाथः काननं सोऽथ मेने ॥ Colophon: इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पुत्रचिन्ताभिधो नाम प्रथमः सर्गः ॥ End: इत्थं विहरतस्तस्य धर्मचक्रं पुरस्सरम् । रराज रुचिरच्छायं भामण्डलमिवापरम् ॥ सर्वासु(दिक्षु) विरचय्य स धर्ममेवमेकातपत्रमवसादितमोहशत्रुम । विच्छिन्नमीनगडः सह मुक्तिवध्वा भेजे सुरवानि भगवानविनश्वराणि ॥ Colophon: इति श्रीवाग्भठविरचिते नेमिनिर्वाणे महाकाव्ये (निर्वाणागमन) नाम पञ्चदशः सर्गः ॥ अरिच्छन्नपुरोत्पन्नः प्राग्वादिकुलशालिनः । दाहटश्च(स्य)सुतचक्रे प्रबन्धं वाग्भटः कविः ॥ नेमेरभूत् प्रबन्धोऽयं वाग्भटेन सुबोधिना । नेमेर्धर्मरथस्यास्य . . . . . . . . . ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy