________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7753
वन्दामहे पादसरोजयुग्ममन्तः कृपालोमिलस्य तस्य ।। यश्वापषष्टया कलिताङ्गयष्टिस्तथापि पावस्थितकोलराजः ॥ ज्योतिर्गणैः सन्ततसेव्यमानमनन्तमाकाशमिव स्तवीमि । सूर्यायते यत्र विभावितानं निशाकरत्याननमण्डलं च ॥ तं धर्मनामानमहं महेशं भक्त्या भवच्छेदकरं स्मरामि । यः सुव्रताभानुसुतत्वमुच्चैः व्रतप्रभाभ्यां वदतीव देवः ॥ शान्ति स वः शान्तिजिनः करोतु विभ्राजमानो मृगलाञ्छनेन । शशीव विश्वप्रमदैकहेतुः यः पापचक्रव्यथको बभव ॥ देव्याः श्रियो यस्तन पः प्रसिद्धः श्रीकुन्थुरत्यद्भुतरूपमूर्तिः । विगाहमानोऽपि मनांसि नासीत् कस्यापि तापाय स वः पुनातु । अराय तस्मै विजितस्मराय नित्यं नमः कर्मविमुक्तिहेतोः । यः श्रीसुमित्रातन योऽपि भूत्वा रामानुरक्तो न बभूव चित्रम् ॥ तपःकुठारक्षतकल्पवल्ली मल्लिर्जिनो वः श्रियमातनोतु । कुरोः सुतस्थापि न यस्य जातं दुःशासनत्वं भुवनेश्वरस्य !! व्रते मतिं श्रीमुनिसुव्रताख्यः त्रिकालविद्वो विदधातु तष्टः । अन्तर्निसध्यान्नपयःप्रचारं येनात्मदुर्गादरिचकमरतन ॥ नमामि भक्त्या नमिनामधेयं सर्वज्ञमज्ञानतभोनिवृत्यै । विन्नो अवाध्वभ्रमणेन नूनं यो योगनिद्रामभजजिनेन्द्रः ॥ श्रीनेमिनाथस्य जयन्ति कान्तास्ताः कान्तयो यामुनवीचिकल्पाः । धर्मोपदेशे दशनप्रभाभिः फेनायितं यत्र विसारिणीभिः ।। श्रीपार्श्वनाथः स जयत्यजत्रं यस्मिन्ननेकान्तविधायिहेतौ । स्वनिग्रहव्यग्रतया स्थिाानामेकान्तमन्तर्न सरवं परेषाम् ॥ श्रीवीरनाथाय नमः प्रकाममनन्नवीर्यातिशयाय तस्मै । अन्तस्स्थनेकाङ्गपरिग्रहो यः कामादिचक्रं युगपांजगाय ॥ तत्र प्रसिद्धास्ति विचित्रहा रम्या पुरी द्वारवतीति नाम्ना । पर्यन्तविस्तारिविशालसालच्छायाच्छविर्यत्परिरवा पयोधिः ।। भविष्यतस्तीर्थकरस्य नेमेनिमित्तमत्यन्तमनोहर श्रीः । .. कृतिः सुराणां ससुरेश्वराणां या प्राप सौरीति ततः प्रसिद्धिम् ॥ 587-A
*
*
For Private and Personal Use Only