SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7752 A DESORIPTIVE CATALOGUE OF A poem in 15 Sargas describing the chief incidents in the life of Nominatha, the 22nd of the 24 Tirthankaras, all of whom are saluted in the introduction of this work. The hero was born as the son of Samudravijaya, King of Dväravatī. The anthor of the work is Vägbhata, son of Dāhata of Prāgrādi family, and is said to have been born at Aricchannapuri. Beginning : श्रीनाभिसूनोः पदपद्मयुग्मनरवाः सुरवानि प्रथयन्तु ते वः । समं नमन्नाक(कि)शिरःकिरीटसङ्घवित्रस्तमणीयतं यैः ।। निश्शेषविद्येश्वरमाश्रयामि तं बुद्धिहेतोरजितं जिनेन्द्रम् । अवादि सर्वानपघातच्या येनागमः सङ्गमितः स्थितार्थः ।। आदित्यचक्रेण कृतककालप्रदक्षिणप्रक्रमणेन भक्त्या । लुप्तेव नालोक्यत यस्य कायच्छाया स वः पातु जिनस्तृतीयः ।। श्रेयांसि दिश्यादभिनन्दनो वः स सर्वदा यस्य दृढव्रतस्य । व्यर्थीभवन्तीं हृदि पुष्पबाणवाणावलिमुक्तिरव(वर)लगासीत् ॥ अपारसंसारसमुद्रनावं देयाद्दयालुः सुमतिर्मतिं नः । नित्यप्रियायोगकृते यदन्ते तपस्यतीवाविरतं रथाङ्गः ।। पद्मासनस्थः स्फुटपद्मनेत्रः पद्मारुणश्रीतपद्मलक्ष्मा । पद्मप्रभो नः प्रभवेऽस्तु नित्यं पद्माप्रदानोद्यतपाणिपद्मः ।। स्वस्तिक्रियास्वस्तिकलाञ्छनो नः सम्भायमानोरुभुजः सुपार्श्वः । विडम्बयामास विलासवेश्म श्रियं सदा यः करुणातरुण्याः ॥ चन्द्रप्रभाय प्रभवे त्रिसन्ध्यं तस्मै नमो विस्मयनीयभासे । यत्पादपद्मौ सविधस्थितेऽपि चन्द्रे विनिद्राद्भुतकान्तियुक्ती ॥ भरिप्रभानिर्जितपुप्पदन्तः करायतिन्यकृतपुष्पदन्तः । त्रिकालसेवागतपुष्पदन्तः श्रेयांसि नो यच्छतु पुष्पदन्तः ।। मूर्धा मुहुश्रुम्बितभूतलेन तं शीतलं देवमहं नमामि । यस्मिन्मनोवर्तिनि सर्वतोऽसौ निवर्तते दुर्गतिदुःखतापः ॥ सुवर्णवर्णद्युतिरस्तु भूत्यै श्रेयान् विभुर्वो विनताप्रसूतः । उच्चैस्तरां यः सुगतिं ददानो विष्णोः सदानन्दयति स्म चेतः ॥ श्रीवासुपूज्यः स जपारुणो वः श्रेयः क्रियावादशतीर्थनाथः । सद्वृत्तमुक्तावलिमध्यवर्ती यः पद्मरागश्रियमादधाति ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy