SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Complete. Beginning: 7749 is also stated that Gopala had a brother named Vitthala and a son named Khandōji by his wife Sakhambika and that he ruled near Chidambaram under the protection of Sivacchatrapati. Vitthala had a friend named Sankara. A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir श्रियं कटाक्षाश्चिरमम्बिकायास्तरङ्गयन्तूत्पलदामदीर्घाः । द्रुमेऽपि सद्यस्तिलकाभिधाने प्रणीयते यैः प्रसवाङ्कुर श्रीः ॥ भद्राणि पुष्णातु स रामभद्रो भद्राकृतिः स्वीकृतभद्रपीठः । कल्पद्रुमो यस्य करादुदारादौदार्यमध्ये तुमिवान्वगास्ते ॥ तस्यात्मनीनस्तनयोऽब्जयोनेः पुरोहितोऽभूद् भगवान् वसिष्ठः । अरुन्धतीनाम्नि यदीयमास्ते पतिव्रताज्योतिषि भागधेयम् ॥ गाय गर्यो दधिकुम्भयोनिर्यद्ब्रह्मदण्डो यमिताखिलास्त्रः । ब्राह्मे बले क्षात्रबले च सारं निरीक्षितणां निकषोपलोऽभूत् ॥ गाधेः सुतः क्रूरतपोमहिना प्रसेदुषि ब्रह्मणि भाषमाणे । अपि द्विजोऽसीत्यवृणीत यस्य तथाप्यनुज्ञां द्विजभावपूर्यै ॥ यस्यान्वये योगिवरस्य शक्तिपराशरव्यासशुकप्रधानाः । सञ्जज्ञिरे सर्वजगत्प्रसिद्धा महर्षयोऽब्धौ मणो यथाच्छाः ॥ तस्यान्ववाये द्विजराज एकः क्षीरोदधौ चन्द्र इवा (धि) कश्रीः । सौम्यः सतां वर्त्मनि संप्रवृत्तो बालाजिनामाजनि पण्डितेन्द्रः ॥ अजायतास्मादरणेरिवाग्रिददाजिनामा तनयोऽग्र्यतेजाः । विरोधिनोऽभ्येत्य विलोलहेतिं चापल्यतो यं शलभी बभूवुः || उमाम्बिका नाम हुताशनस्य स्वाहेव तस्याजनि धर्मपत्नी । अजीजनद्धर्ममिवात्तदेहं गोपालनामानमसौ कुमारम् ॥ उमाकुमारोऽयमुदग्रशक्तिर्नाल्यात् प्रतिक्ष्माभृदुरोविभेत्ता । दादाजिनेतुस्तनयो महात्मा बालेन्दुमौलेरिव बाहुलेयः ॥ गोपाल भूपालवरस्य तस्य गुणौघमाणिक्यस्वनिः कनीयान् । रामस्य सौमित्रिरिवातिमात्रप्रेमाश्रयो विट्ठलपण्डितोऽभूत् ॥ धर्मप्रतिष्ठापनतत्परस्य तथाविधोऽक्रूरहितस्य तस्य । सरखानघः शङ्करपण्डितोऽभूद् गाण्डीवधन्वेव गदाग्रजस्य ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy