________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
7737
विख्याताश्चत्सुधर्मो गुरुमतविलसन्नीतियुक्तो बुधौघैः संसेव्योऽतुल्यभागो विलसति जगदेकावनीनाथशक्रः ।। शेषस्तज्जगदेकरायनृपतेः की, जितः सत्रपः क्ष्माभारोपधिमेत्य किन्नु सततं पाताल एव स्थितः । तार्तीयीकविलोचनं च विजितं तस्य प्रतापेन किं नोन्मेषं नयते कदापि हिमवत्पुत्रीमनोवल्लभः ॥ दस्यूनङ्कशरायभूपतिवरो जित्वा रणक्ष्मातले दस्यूनेव महावनान्तरगतान कृत्वा ततानाद्भुतम् । विद्वद्गायकसेवकप्रततये दानाय . . . . . . • • . . . . . . . . . . . . सुपर्वद्रुमः ।। आगत्याङ्कशरायभूपतिवरं स्वेषां प्रतीतातामिच्छन्तः प्रविदारणाय बलिभिस्तत्सैनिकैर्निर्जिताः । दत्वास्मै च हयान् गजान् वसुपुरीः प्रत्यर्थिनो निर्धनाः पूर्वामप्य(थ)निन्युरात्मनिलयामज्ञाः प्रतीताहताम् ।। सर्वज्ञः स वनीपकान वितनुते राणाङ्कशक्ष्माविभुविद्याढ्यानवनीपकान् करुणया वित्तानवित्तानरीन् । स्वस्थं निर्जरनायकं स्म कुरुते भोगेन जित्वाप्यहो अस्वस्थं नितराममुष्य महिमा ज्ञातं कथं शक्यते ।। यो यत्नं बहुमेकसैन्धवहतौ पार्थोऽकरोत्संयुगेऽ. नायासेन विनिम्नतो निजशरैः सङ्ख्याधिकान् सैन्धवान् । तस्यैव प्रतिमा भवेत् किममितान् दुश्शासनान्निघ्नतो भीमथाङ्कुशरायभूतलपतेभिन्नैकदुश्शासनः ॥ संप्राप्याङ्कुशरायभूतलपतेः कीर्त्या जितत्वं भवन् सत्रासो द्विजराजनाम नितरामिन्दुर्बिभर्ति ध्रुवम् । तद्वत्तस्य महाप्रतापविजितो भूत्वा कृशानुर्भृशं मध्यं प्राप्य भयान्महाजलनिधेः किं बाडबाह्वोऽभवत् ।। कन्यामङ्कशरायभूपतिमणिः श्रीलिङ्गमाख्यान्वितां रम्यां वीरपनामभूपतनयां धन्यामुपायंस्त सः । 686-A
For Private and Personal Use Only