SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7784 A DESCRIPTIVE CATALOGUE OF वेदान्तार्थसुबोधशङ्करतुलां पूर्व परं प्राह (प)तद्युग्मे पण्डितता च तर्ककृतितां यस्मादिदं तद्युतम् ॥ यत्सर्वैरभिवीक्ष्यसे वररुचिस्तच्छन्दशास्त्रज्ञतां छन्दश्शास्त्रकृतित्वमप्यधिगतः सद्वृत्ततासौ त्वया । ब्रूतेऽलङ्कृतिशास्त्रविज्ञतरतां काव्यप्रकाशः कृतस्तस्मात्काव्यविधानपण्डिततरस्त्वं मे परं संमतः ॥ एकं पद्यमाप प्रयत्नसहिताः कृत्वापशब्दान्वितं प्राप्ता मत्सविधं कथं न्वयमिति प्रश्नं गताः क्रुद्धताम् । संप्राप्ता महितां स्वनिष्ठजड़तामारोपयन्ते मयि प्राज्ञा महचनेषु ये कुकवयस्तेभ्योऽस्म्यहं साञ्जलिः ।। विद्वद्भिः कषणे कृतेऽपि नित(रां) न क्रुडतां यद्भवान् मादृर्भजते परोक्तिसुगुणग्राही कवीन्द्रस्ततः । त्वं तस्मात् प्रतिपद्यमद्य रचयस्वैकं चमत्कारवत् प्राप्त शौरिकथां मदङ्कितमहाकाव्यं रसैरुज्वलम् ।। तिष्ठन्ति क्षितिमण्डले बुधमणे वापीतटाकामरस्थानाराममुखानि तांनि सुकृतस्याप्तेर्निदानानि यत् । कञ्चित्कालमिदं तु तिष्ठति यदाकल्पं रसेनोज्वलं शब्दब्रह्ममयं कृतं सुकविना काव्यं तदेभ्योऽधिकम् ॥ इत्थं तस्य महीपतेर्गिरमहं श्रुत्वापि हर्षान्वितः प्रावोचं पुरतो न ते फणिपतिः सम्यक् क्षमो भाषणे । किन्तु प्राप्य कृपारसेन कलितं तेऽनुग्रहं साध्वसं सन्त्यज्येम्मडि-अङ्कशक्षितिपते काव्यं करिष्याम्यहम् ।। केदं तावकचन्नपट्टणमहो श्रीशैलमुख्याचलैरत्यन्तं व्यवधानवत्सुमहिता मर्कोण्डवीटी पुरी। मध्यस्थानखिलानतीत्य महिमा (ता)नत्या(भ्या)गमो मामको दूगदिम्मडि-अङ्कशक्षितिपते सर्वज्ञताज्ञापकः ॥ सृष्वा मादृशपण्डितान्यदसृजत् सर्वान् क्षमानायकान् मूढान् बाढमपात्रदाननिरतान् पद्मोद्भवस्तद्भवाम् । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy