SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7723 करण्यं न स्यादिति वाच्यम् । अभिधेयेनाभिधायकस्यापि बहुशो व्यपदेशदर्शनात् । यथा--" जानकीहरणं प्रबन्धः, शिशुपालवधः काव्यम्" इत्यादिषु इत्यलमतिप्रसङ्गेन । __ प्रकृतमनुसरामः-उत्तरस्यां दिशि हिमालयः नाम नगाधिराजः अस्ति । उत्तरस्यां दिशीत्यनेन हिमवतो देवभूमिष्वन्तर्भाव उक्तः । वक्ष्यति च---"पितुः . प्रदेशास्तव देवभूमयः" इति । उत्तरस्यां दिशि देवभूमयः ; दक्षिणस्यां दिशि असुरभूमयः ; मध्ये मनुष्यभुमयः इति पुराणप्रसिद्धिः । हिमानां तुषाराणामालयो हिमालयः । नामेति प्रसिद्धिवाचकमव्ययम् । हिमवानिति प्रसिद्ध इत्यर्थः । नगानां पर्वतानामधिराजो नगाधिराजः । अधिराजः श्रेष्ठः । अस्ति भवति । End : अपचितबलिपुष्पा इत्यादिना च प्रदर्शितम् । वक्ष्यति च-अथोपनिन्ये गिरिशाय गौरीमित्यादिना इति सर्वं समङ्गलम् ।। सर्गोऽयं प्रथमो गुणश्च गिरिजालावण्यसारं परं यस्मिन्वर्णयति स्म कर्णमधुरैर्वणैः कवि(वे)रग्रणीः । तत्राहं कशधीः करोमि किमतिव्यालोलचित्तं तु मामित्थं किञ्चिदजल्पयन् गिरिसुतापादाब्जभक्तिः स्वयम् ।। गोविन्दाङ्गगुणोघवर्णनविधौ दक्षस्य नारायण-.. क्ष्मादेवस्य कृतौ गिरीशगिरिजाभक्तिप्रवृहोदये । व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया निष्णाते प्रथमः समाप्तिमगमत्सगो निसौज्वलः ॥ Colophon: इति श्रीकृष्णशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे प्रथमस्सर्गः ॥ - ' No. 11529. कुमारसम्भवव्याख्या. KUMĀRASAMBHAVAVYÂKHYA. Substance, paper. Size, 11X 83 inches. Pages, 72. Lines, 25 on a page. Character, Dāvanāgarī and Grantha. Condition, good. Appearance, new. Begins on fol. 13la. The other works herein are Vasavadattavyākhyānam la, Väsavadattavyakhyanam (different) 53a. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy