SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7722 A DESCRIPTIVE CATALOGUE OF अत्रोच्यते नात्र तारकासुरनिग्रहः काव्ये साध्यः, "तदिच्छामो विक्षो स्रष्टुं सेनान्यं तस्य शान्तये” इति देवैः कुमारसृष्टिमात्रस्यैव ब्रह्माणं प्रति प्रार्थितत्वात् । तारकासुरनिग्रहस्त कुमारोद्भवप्रस्तावकतया निमित्तत्वेनोपक्षिप्तः। यथा किरातार्जुनीये धनञ्जयः । तस्मात्कुमारसम्भव इति काव्यसंज्ञा सूक्ता । न चैवं सति तत्पर्यन्तं काव्यं प्रवर्तवितव्यामति वाच्यम , “ उमारूपेण ते यूयं संयमस्तिमितं मनः ।। शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥" इति ब्रह्मणः प्रतिवचने शम्भोश्चित्ताकर्षणमात्रस्यैव परमसाध्यत्वेन प्रतिपादनात् । कारणपोप्कल्ये सति कार्यस्यावश्यम्भाव एव ब्रह्मणस्तथानिदेशे हेतुरिति चावगन्तव्यम् । शम्भोश्चित्ताकर्षणं पुनरष्टमसर्गे विस्तरतः प्रतिपादितम् । यथोक्तमन्त्यश्लोके ---- " समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः शतमगमहतूनां सार्धमेका निशेव । न च सुरतरसेषु च्छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलेषु ।।" इति । उक्तं च पञ्चमसर्गान्ते देवी प्रति देवेनैवम् ---- " अद्यप्रभृत्य नवमाङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।" इति ॥ . तस्मादुमारूपेणेत्युपक्रमात् अद्यप्रभृतीत परा(म)र्शात्-" समदिवसनिशीथम्" इत्युपसंहाराच्च शम्भोश्चित्ताकर्षणमात्र एव तात्पर्यम् । " " उपक्रमोपसंहारावभ्यासोऽपूर्वतः फलम् । अर्थवादोपपत्तिश्च लिङ्गानाच विनिर्णये ॥" इति वचनात् । तच्च सम्यक् प्रतिपादितमष्टमसर्गे सम्भोगवर्णनेन कुमारोत्पत्तेबिन्दुविक्षेपमात्रेणोति सर्वमनवद्यम् । यवत्र तारकासुरनिग्रहपर्यन्तं चिकीर्षितमिति कैश्चिदुक्तं तदप्युक्तया रीत्या परिहतं वेदितव्यम् । कवेश्चिकीर्षाया अप्येतत्पर्यन्तत्वस्य समर्थितत्वात् । देव्याः शापाभावं पुनरष्टमसर्गादौ निपुणतरमुपपादयिष्यामः । ननु कुमारसम्भव इत्यत्र कः समासः ? षष्ठीतत्पुरुष इति ब्रूमः । न चैवं सति कुमारसम्भवरूपार्थपरत्वाच्छब्दस्य कुमारसम्भवः काव्यामति सामानाधि For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy