________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
7721
लोकानामुदयस्थितिक्षतिकरी वन्दारुबृन्दारकश्रेणीमौलिमणिप्रभारविकरप्रोद्यत्कराम्भोरुहा । भाति ब्रह्मरवलालये शशिकलाशुम्भज्जठावल्लरी भक्ताभीष्टविधानकल्पलतिका काचित्कृपाकन्दली ॥ अङ्गे तुङ्गशशाङ्करवण्डधवलं कोटीरभारे वरे बालादित्यकराङ्कुरप्रतिमटं कण्ठे घनश्यामलम् । सत्त्वादीनिव बिभ्रतं त्रिजगतां रक्षादिसिधै गुणानाबद्धाञ्जलि बालमन्दनिलयं मारारिमाराधये ॥ कृष्णो विबुधाधिपतिर्निष्णातो वितरणेषु विद्यायाः । मुष्णातु हृदयतिमिरं पुष्णातु च मङ्गलानि सकलानि ॥ प्राचीनाचार्यकृताः सुविचार्य कुमारसम्भव[स्यव्याख्याः । बालप्रबोधनार्थ ललितं करवाणि विवरणं तस्य ॥ प्राचीनसूरिविहिते महति प्रभूते व्याख्यान्तरे विफल एष परिश्रमो मे । वाति प्रकामसुभगे मलयाद्रिजाते वाते फलं किमु करोतु मुरवानिलोऽयम् ।। व्याख्यैकापि तथापि प्रदर्शितान्वयपदार्थवाक्यार्था । विस्तसमासोपेता गुरुतरमुपकारमारचयेत् ॥ व्याख्यान्तरेषु दृष्टेषु विमृष्टेष्वपि तत्त्वतः । सुभगश्शिवदासोक्तो मार्ग एवानुगम्यते ॥
इह खलु महाकविः कालिदासः पार्वतीपरमेश्वर पवित्रचरित्रविचित्रं कुमारसम्भवाभिधानं काव्यं चिकीर्षुः “ आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुरवम्" इत्यादिवचनानुसारेण वस्तुनिर्देशं तावत् करोति- अस्तीति ।
ननु काव्ये यत् साध्यं तदनुसारेणैव काव्यसंज्ञा कर्तव्या । यथा युधिष्ठिरविजयजानकीहरणशिशुपालवधप्रभृतीनाम् । अत्र तु तारकासुरनिग्रहः काव्ये साध्यतया निर्दिष्टः । “तस्मिन् विप्रकृताः काले तारकेण दिवौकसः।" इत्युपक्रमात् । तस्मात्तारकवध इत्येव काव्यसंज्ञा कर्तव्या । तत्पर्यन्तं च काव्यं प्रवर्तयितव्यं, न चैतत्कृतम् ; तस्मादसमञ्जसमिदं काव्यम् ।
अपि च कुमारोत्पत्तिपर्यन्तमपि न काव्यं कृतम् ; तस्मादनुपपन्नमिदं नामापि इति ।
585-A
For Private and Personal Use Only