SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8118 तत्र वियोगो(गे प्रथमं प्रियगमनं स्त्रीषु मदनजावस्था ।। प्रश्नः सखीनां विविधाः प्रलापा वियोगिनीनामथ दूतिकायाः । सम्प्रेषणं मन्मथजाप्यवस्था सह प्रलापन वियोगिनश्च ।। दुतीवचः प्रियं प्रति सन्देशो विरहिणः प्रियतमायाम् । तस्या विरहावस्थाकथनं दूत्या प्रियाप्रश्नः ॥ दूत्युपहासस्तदनु प्रियस्य कान्तावलोकने वाचः । बाल्यं वयसः सन्धिः यौवनमखिलाङ्गवर्णनं क्रमशः ।! माने मानिन्यवस्था तु नायिकातिथ्यपूर्विका । सख्या चानुनयः पश्चादुक्तिप्रत्युक्तयस्ततः ॥ प्रसादोऽथ च संभोग ऋतवः कुसुमोच्चयः । कन्दकोदकयोः क्रीडा रवेशास्तमयस्ततः ।। प्रलापाः कामिनीमादावभिसारेऽभिसारिका । चन्द्रोदयः पानगोष्ठी प्रियाचाटुरतः परम् ॥ सरतेषु तत्प्रशंसा नवयोषित्सङ्गमे सखीवाक्यम् । निधुवनमथ नववध्वा रतिकेली रतिविपर्यासः ॥ निवृत्तिः सुरतस्यादौ कलहः प्रणयस्य च । नायिकानुनयः पश्चात्प्रभातं तत्समीरणः ॥ कलहान्तरिताप्रलपनमतः परं नायकस्य शिक्षा च । सम्भोगाविष्करणं कुलटा सङ्कीर्णमिति च शङ्गारः ।। रसहास्यादयो जातिस्ततो भूपतिवर्णनम् । क्रियागुप्त्यादिचित्राणि तथा वक्रोक्तिपद्धतिः ॥ रथकरिहरिगिरिवारिविनदीसरोनगरवर्णनं क्रमशः । कूर्मादीनां स्तवनमुद्यानाश्रमनगरमुन्यादेः ॥ नीतिर्विद्या दैवं सपुरुषकारं च साहसं लक्ष्मीः । दानं कुलनारी तवृत्तमपत्यं च मित्रगुणौ ॥ कला सेवाथ धर्मार्थो तृप्तिर्दारिद्यपद्धतिः । सन्तोषक्षान्तिकरुणावैराग्यं तदनु स्तुती ।। हरीशयोस्त्रयस्त्रिंशत्पद्धतीनामिदं शतम् । श्रीमता भगदत्तेन जल्हणेन व्यरच्यत ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy