SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 8111 हारंहारं नृपाणां समिति गजघटा भिल्लमायादितासावाशामाशागजानामपि हरणविधौ साम्प्रतं ही विधत्ते । स्मारंस्मारं सुराणामधिपतिरिति यद्विक्रमाणां स्म भीतः शङ्के सङ्केनभूमौ विनमयति निजं कुञ्जरं कुञ्जरन्ध्रे ॥ यदसिनिहतदन्तिवातरक्ताक्तमुक्ताफलविहितविभूषायत्तवेतालयोषाः । रिपुनृपतिकबन्धान्नृत्यतोऽद्यापि दृष्ट्वा करकलितकपालास्तालमुद्घाटयन्ति ॥ आसीद्गङ्गाधरस्तस्य भ्राता गङ्गाधरोपमः । एकान् बबन्ध यो व्यालान् मुमु(मो)चैकान् यदृच्छया ।। सङ्गं द्विजिहेर्न चकार दुष्टैरुवाह मूर्धा न जडं कदाचित् । ददाह कामं न जनस्य रुष्टः तथापि गङ्गाधर एव सोऽभूत् ।। तस्याभवत्सू नुरनूनसत्वो जनार्दनाह्वः करिवाहिनीशः । समुद्रवद्यो भुवनं बभार सह श्रिया चित्रमशेषमेतत् ॥ उत्पन्नं सुधियां कुले यदखिलैस्त्यक्तं बुधैर्न क्षणं यन्नी विस्मृतमेकदापि सुजनैर्यद्यन्न युक्तं खलैः ।। दौर्गत्यस्य तथाविधस्य (महतां) तस्यापि केनापि नो यद्दानाम्बुसरित्प्रवाहपतितस्याकारि हस्तार्पणम् ॥ सिंहोऽप्यध्यापितस्तेन गजशिक्षां तदद्भुतम् । ययार्जुनं लसत्पत्रं समूलमुदमूलयत् ।। विश्वत्राणपरायणः स्फुरदुरुस्वर्णार्चितार्थिव्रजस्तस्मादद्भुतविक्रमः समभवच्छीलक्ष्मिदेवः सुधीः । मन्त्रनिर्जितदेवमन्त्रधिषणैर्जाग्रन्नयप्रक्रमैः राज्यं कृष्णमहीपतेरविकलं दत्वा स्थिरं यो व्यधात् ॥ अगस्त्य इव यस्यासिञ्चितक्षितिभृद्वभौ । चित्रं सोऽप्यकरोन्नत्यत्कबन्धं समरार्णवम् ॥ तस्यास्ते तनयो नयोदधिविधुर्बन्धुर्बुधानां सुधीः सारासारविचारणासु चतुरः श्रीजल्हणाख्यः क्षितौ । यद्दानोदकवाहिनीभवनवाम्भोधेर्यशश्चन्द्रमा जातोऽन्यः सततोदितो धवलयत्युच्चैर्जगन्त्युल्बणः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy