SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8110 A DESCRIPIIVB CATALOGUE OF जनयतु नतिभाजामेष सन्तोषपोषं कुवलयदलकान्तिः कालिकायाः कटाक्षः । प्रकटयति पुरारः केतकीगर्भपत्रविषि वपुषि लिपि यः पञ्चबाणप्रशस्तेः ॥ लसन्मृणालाङ्करकोमलानि स्फुरत्सुधाधामकलामलानि । पीयूषसारैकनिकेतनानि जयन्ति सूक्तानि महाकवीनाम् ।। गीर्वाणासुरमौलिरत्ननिकरप्रेङ्खन्मयूखाम्भसः संसेकादिव पादमूलकलितैः स्निग्धैः प्रभापल्लवैः । आश्वासं कृपयेव शश्वदकरोन्मुग्धैणसार्थस्य यः सोऽभूद्वत्समुनिः पवित्रचरणन्यासेन पूतावनिः ।। चत्वारस्तस्य सञ्जातास्तनया नयशालिनः ।। भुजा इव हरेः शश्वविक्रम श्रीविभूषिताः ।। चतुर्मुखमुखोद्गीर्णनिगमा इव ते बभुः । ख्यातो महीधरो जल्हः साम्बगङ्गाधरावपि ॥ उपायैरिव तैः काले चतुर्भिः सुप्रयोजितैः । मेलुगिक्षोणिभूपालराज्यं जातं सदोन्नतम् ॥ बिज्जणवलजलराशिं विमथ्य भुजमन्दरेण यः कृतवान् । वीरश्रियमङ्कस्थां स न कस्य महीधरः स्तुत्यः ।। किं चित्रं याद भोगीन्द्रोऽनन्तरतत्तनयो बहून् । आनीय बलिसद्मस्थान् नागान् स्वस्वामिने ददौ ॥ विजित्य बिजणं याते सुरलोकं महीधरे ।। निनाय भिल्लमं जल्हो राजतां क्षयवर्जिताम् ॥ घूर्जरभूभृत्कट के कण्टकविषमेऽतिदुर्गमे थेन । भगदत्तकीर्तिभाजा दुष्टगजः स्वेच्छया नीतः ॥ मल्लः पल्लवितोरुभीतिरभितस्त्रस्यद्वलो मैलुगिUञ्जः पुञ्जितविक्रमस्त्रिभुवनब्रह्मा किल ब्राह्मणः । अन्नो नुन्नपराक्रमो विधुतभूभभ्रू रणप्राङ्गणे येनाकारि मुरारिविक्रमभृता किं किं न तस्योर्जितम् ॥ . For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy