SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8012 www.kobatirth.org गौरी कचानबिम्बितमात्मीयविषाणमुपवर्ण्य । कर्षन् बालमृणालभ्रान्त्या द्वैमातुरः पातु ॥ 66 A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir << अत्र कः खो गो घश्च लक्ष्मीं वितरति " इति भामहवचनादाद गकारः शुभफलः । तगणस्य तूदासीनत्वेऽपि " देवतावाचकाः शब्दा ये भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि वा ।। " इति वचनाद्गौरीपदस्यादौ प्रयोगान्न दोषः । प्रतिविम्बितविषाणे मृणालभ्रान्त्य सत्त्वेऽपि तदनर्थिनस्तत्र प्रवृत्यनुत्पत्तेस्तदाकर्षणं गजमुखत्वेनोपपाद्यते । अन बाल्यावच्छिन्नस्य तस्य वर्णनीयतया भ्रान्तिकथनं नापकर्षमावहति । तत्स्वभा(व) वर्णनपर्यवसानात् । अत एव प्राचीना अवर्णयन्'दर्पाद्दन्तविदारितेश्वरगिरिप्रान्तावनीरन्ध्रतः पत्युः कुण्डलिनां फणामणिमहस्तोमे समुत्तस्थुषि । रत्नस्तम्भ इति भ्रमण करटं कण्डूयितुं वाञ्छतो हेरम्बस्व जयन्ति कूणितदृशो मून सुधाधूतयः ॥ " किं वानेन ? तस्य ब्रह्मरूपतया अविद्यासम्बन्धेन जगदाकारतया विवर्तोऽपि सूच्यते। “देवात्मशाक्तस्वगुणैर्निगूढाम् " इत्यादौ तस्या ब्रह्मसम्बन्धश्रवणात्। प्रतिबिम्बोत्पत्त्या स्तनयोर्निर्मलत्वसूचनम् । स्वमु (ख)स्थ एव दन्ते विशेषदर्शनसच्चेन मृणालभ्रमो न सम्भवतीत्यतो गौरीत्यादि । बालकतया तत्सन्निधानस्य सार्वदिकत्वात् । अनेन कुचयोः कमलमुकुलाकारत्वमप्याक्षिप्यते । तत्सन्निधिना विषाणे त [त्स ] दवरमृणालभ्रमोपपत्तेः । अत्र देवताविषयकभावध्वनिः । तत्र भ्रान्तिमतोऽनुगुणत्वं जगन्मातृक्रोडक्रीडनादिना तदुत्कषीक्षेपात् । तत्स्वरूपं वास्मत्कृतालङ्कारकौस्तुभे यथा - " तदभाववति मतिस्तत्प्रकारिका भ्रान्तिमान् भवति । " इदानीं “ शब्दस्वरूपमखिलं धत्ते शर्वस्य वल्लभा। अर्थस्वरूपमखिलं धत्ते बालेन्दुशेखरः || ” इति वायुपुराणात् "अर्थः शम्भुश्शिवा वाणी " इति लिङ्गपुराणाच्च शब्दार्थोभयरूपे काव्ये तदुभयो पपत्तये तमेवानुसन्दधाति - " ➖➖➖➖➖➖➖ लङ्कापतिभुजवडीवेष्टितमवलोक्य कैलासम् । मृतकाली बाहुलतावललि (वि) त निजविग्रहः शिवो जयति ॥ वृषकेतनस्य हृदये वरणत्र (1) जयति गिरिभुवा निहिता । कुण्डलनेवानङ्गप्रतिकूलाशेषवृत्तीनाम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy