SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TUE SANSKRIT MANUSCRIPTS. 7995 न्यायन तदिदमित्यत्र तच्छब्दस्य प्रकान्ताद्यर्थत्वाभावेन यच्छब्दसापेक्षत्वात्तत्सामर्थ्यादागतस्य यस्मादित्यस्य साधारणत्वेनागतस्य वर्तत इत्यस्य च यथार्ह वनभुव इत्यादावन्वयोऽवगन्तव्यः । यस्मात्तमालद्रुमैः तापिञ्छतरुभिः वनभुवः मार्गस्थलविपिनभूमयश्च श्यामाः नीलवर्णा अविस्पष्टमार्गा इति यावत् । वर्तन्त इति शेषः । अत्र तमालद्रुमैरितिपदं तन्त्रेणोपात्तं द्रष्टव्यं । सकृदुच्चरितमनेकोपकारकं तन्त्रमिति तन्त्रविदः कथयन्ति । तेनायमर्थः सम्पन्नः--तमालद्रुमाः तापिञ्छतरवः, पलाशी दुद्रुमागमा इत्यमरः । End: अधुना तु परमपुरुषार्थसाधनभूतमतीतसकलमधुरपदार्थकं सकलजनहृदयानन्दकरं जयदेववागमृतमाकलय्य न कोऽपि कठाक्षेणापि त्वां वीक्षन्त इति वापि जन्म मुधैवेति भावः । तथा च मधुरप्रियैः सात्त्विकै थैहिकामुष्मिकसुरवाथिभिः जयदेवसरस्वत्येवास्वादनीया न वस्त्वन्तरमिति भावः । यावत्तावच्छृङ्गारोति क्वचित्पाठस्तदा सुगमः ॥ Colophon: इति श्रीमदरिवलदेवतासार्वभौमरघुनाथप्रसादलब्धसकलसाम्राज्यसोमान्वयाभरणधरणीवराहात्रेयगोत्रपवित्र श्रीरङ्गराजपुत्रतिरुमलराजविरचितायां गीतगोविन्दव्याख्यायां श्रुतिरञ्जनीसमाख्यायां द्वादशः सर्गः ॥ कृत्वावतारकृत्यं पुष्पकमारुह्य सीतया साकम् । प्राप्यायोध्यां राज्यं चकार रामः स न: पायात् ॥ एतत्प्रबन्धानमित्या या परोपकृतिस्तथा । माल्यवत्पर्वतावासः प्रीयतां रघुनायकः ।। No. 11963. गीतगोविन्दम् , श्रुतिरञ्जनीव्याख्यासहितम्. GITAGOVINDAM WITH THE COMMENTARY SRUTIRANJANI. Substance, palm-leaf. Size, 182 x 11 inches. Pages, 174. Lines, 6 on a page. Character, Telugu. Condition, slightly injured. Appearance, old. Complete. Same work as the above, The copying was finished on Wednesday, the 14th day of Pusya Suddha in the year Parābhava. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy