________________
Shri Mahavir Jain Aradhana Kendra
7974
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
No. 11914. हंससन्देशव्याख्या. HAMSASAN DESAV YAKHYA.
Pages, 68. Lines, 20 on a page.
Begins on fol. 180a of the MS. described under No. 11904. Complete.
A commentary on the Hamsasandēsa of Vedantadēsika, described under No. 11204. It was composed apparently by a disciple of Śrīnivāsaguru of Kausikagōtra who was himself the disciple of Lakṣmaṇārya and of Srinivasarya of Vadhulagōtra. The latter is said to have been a disciple of Mahacarya and son of Devarajaguru.
Beginning:
श्रीमान्वेङ्कटनाथार्यः कवितार्किक केसरी | वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ महादेशिक सम्प्राप्तवेदान्तद्वयमाश्रये । वाधूल श्रीनिवासार्य देवराजगुरोः सुतम् ॥ वाधूल श्रीनिवासार्यात्प्राप्तवेदान्तसम्पदम् । लक्ष्मणार्यदयापात्रं श्रीनिवासगुरुं भजे ॥ वेदान्ताचार्यमहं विविधासङ्ख्येयगुणगणैर्जुष्टम् । वन्दे तत्कृतहंससन्देशश्लोकविवरणं कुर्वन् ॥ वाधूल श्रीनिवासार्थं कुशिकान्वयजं गुरुम् । उभौ नत्वा प्रवक्ष्यामि हंससन्देशटिप्पणीम् ॥ महाचार्यपदद्वन्द्वकृपामालम्ब्य भक्तितः । विशृणोमि यथाप्रज्ञं हंससन्देशमुत्तमम् ॥
श्रीमान् वेङ्कटनाथार्यः स्वशिष्यानुजिघृक्षया पुरातनकाव्यसन्देशादीनां वक्तृविषयवैलक्षण्या भावाद्विषयादिवैलक्षण्य विशिष्टं हंससन्देशमकरोत् । अस्मिन् सन्दशे रामो माल्यवत्पर्वते स्थितः सन् मारुतिना सीतादर्शनानन्तरं सीताश्वासनार्थं तत्र सरसि स्थितं हंसं दृष्ट्वा प्रेषयति । तत्र प्रथमश्लोके स्वयमपि श्रिया नित्यसंश्लेषयुक्तोऽपि मनुष्यभावमभिनयन् कामुकभावमन्वभूदित्याह – वंश इति । आदी मगणप्रयोगात् तस्य पृथिवी - दैवत्यत्वाग्रन्थस्य तदभ्येतॄणां च स्थैर्य सिध्यति । वकारस्यामृतबीजस्यादौ प्रयोगात् प्रबन्धे मङ्गलत्वसिद्धिः । रघुनाथविषयत्वादर्थतोऽपि मङ्गलत्वम् ।
-
1
For Private and Personal Use Only