SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7705 The commentator is said to have been well-versed in grammar, Mimāmgā and logic. Complete. Beginning : अर्धाङ्गीकृतदाम्पत्यमपि गाढानुरागि यत् । पितृभ्यां जगतस्तस्मै कस्मैचिन्महसे नमः ॥ आलम्बे जगदालम्ब हेरम्बचरणाम्बुजम् । शुष्यन्ति यद्रजस्पर्शात्सद्यः प्रत्यूहवार्धयः ।। तद्दिव्यमव्ययं धाम सारस्वतमुपास्महे । यत्प्रसादात्प्रलीयन्ते मोहान्धतमसच्छठाः ॥ वाणी काणभुजीमजीगणदवासासीच वैयासिकीमन्तस्तन्त्रमरंस्त पन्नगगवीगुम्मेषु चाजागरीत् । . वाचामाचकलद्रहस्यमखिलं यश्चाक्ष पादस्फुरा लोकेऽभूद्यदुपज्ञमव विदुषां सौजन्यजन्यं यशः ॥ माल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया । तत्किरातार्जुनीयस्य टीकां व्याख्यातुमिच्छति ॥ नारिकेरफलसंमतं वचो भारवेः सपदि तत् विभज्यते । स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम् ॥ नानानिबन्धविषमैकपदैनितान्तं साशङ्कचङ्कमणविन्नधियामशङ्कम् । कर्तुं प्रवेशमिह भारविकाव्यबन्धे घण्टापथं कमपि नूतनमातनिष्ये ।। इहान्वयमुखेनैव सच() व्याख्यायते मया । नामूलं लिख्यते किश्चिन्नानपेक्षितमुच्यते ॥ अथ तत्र भवान् मारविनामा कविः “काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वतये कान्तासम्मिततयोपदेशयुजे ॥” इत्याद्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेक श्रेयस्साधनताम् , “काव्यालापांश्च वर्जयेत् ” इति निषेधशास्त्रस्यासत्काव्यविषयतां च पश्यन् किरातार्जुनीयाख्यं महाकाव्यं चिकीर्षुः चिकीर्षितार्थाविघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलसाधनत्वात् “ आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् " इत्याशीदिाद्यन्यतमस्य प्रबन्धमुरवलक्षणत्वाच्च वनेचरस्य युधिष्ठिरप्राप्तिरूपं वस्तु 584-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy