SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7929 Beginning: प्रवर्तन्तेऽखिला भूतिस्थितिसंहृतयो यतः । प्रणम्याग्रे गणाधीशं वाग्देवीं (च यथागमम)। नलोदयस्याल्पधिया व्याक्रिया क्रियते मया ।।। शब्दवैचित्र्यमात्रप्रकाशनपरे काव्ये गहनार्थव्यक्तयर्थासंभवात् दुषरपदपरिच्छेदमात्र (विधावप्यस्मत्सधर्मणा)मल्पप्रज्ञानां येषां केषांचिद्यदा कदाचिद्यः कश्चिदुपकारः स्यादित्येवमर्थोऽयमस्मदुद्यमः, न तु वैदग्ध्यविद्योतनायेति विदुषां सदा (अस्मिन् कर्मणि) तितिक्षितव्यम् । प्रारिप्सितस्य ग्रन्थस्यादौ तावद. विघ्नेन परिसमाप्त्यर्थ प्रचयार्थ च शिष्टाचारादभीष्टदेवताप्रणतिर्हृदयेत्यादिश्लोकचतुष्केण . . . . . . . मू-हृदय सदा यादवतः पापाटव्या दुरासदाया दवतः । अरिसमुदायादवतस्त्रिजगन्मा गाः स्मरेण दायादवतः ॥ हे हृदय मनः सदा सर्व कालं यादवतः परमपुरुषात् मा गाः ; इणो गा लुङीति गाङादेशः । दुरासदायाः पापाटव्याः दवतः विपिनवदतिदुर्गमस्यानेकजन्मसञ्चितस्य दुरितस्यामिभूतात् , दवशब्दो वनवनानलयोर्वर्तते । अरिसमुदायात्रिजगदवतः हिरण्यकशिपुप्रभृतर्वैरिसङ्घात्रिलोकी पालथतः ; भीत्रार्थानां भयहेतुरिति सूत्रेणापादानत्वम् । स्मरेण मदनेन प्रद्युम्नन दायादवतः प्रशंसायां मतुप् । तस्य हि चारुदेष्णादयो बहवः पुत्रा विद्यन्ते । प्रद्युम्न एवात्मसमः पुत्रः । अनेनैव प्रशस्तपुत्रता भवतीत्यर्थः । इदमादौ हरिसकीर्तनमात्मनश्च श्रोतृणां च मङ्गलाय भवति । सर्वदा सर्वकार्येषु मास्ति तेषा . . . . देवो मङ्गलायतनं हरिः इत्युक्तत्वात् । स्मरणसंकीर्तनाभ्यां हरेरमङ्गलनिरासो मङ्गलसंपत्तिश्चोभयं कवि. End: नलेन पर्यतायतायतायता पुरेव सा । सदायमुन्महा महामहामहास्त संपदम् ॥ नलेन आयतायता अत्यन्तमायता । अथवा आयः अर्थ . . . आयतायता यस्याः पुर्याः समृद्धार्थागमा सा पुरी पुरेव पुरा यथा तथैव (अतायत) तनु विस्तार इत्यस्माद्धातोः कर्मणि लुङ् । विस्तारिता यथा पूर्व तथैव विचित्रितेत्यर्थः . . . . . उन्महा सदा सर्वदा अत्यन्तं तेजिष्ठः अयं नल: महामहां मह उत्सवः महांश्चासौ महश्च महामहः सोऽस्या अस्तीति सा महामह( तां) महासंपदमहास्त प्राप्तवान् । अयमर्थः ---सा पुरी पूर्वमेव 598-A For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy