SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7925 दवानेरिति रूपकम् । पुनः कीदृशात् । अरिसमूहात् त्रैलोक्यमवत इति । पुनः कीदृशात् । स्मरेण कामेन । दायादवतः पुत्रवतः । “ दायादौ सुत. बान्धवौ” इत्यमरः । End: नलेन पुर्यतायतायतायता पुरेव सा । सदायपुन्महा महामहामहास्त सम्पदम् ॥ अथाशीर्वादव्याजेन नलोदयकाव्यसमाप्ति सूचयति ---नलेनेति । नलेन नैष. धेन । सा पुरी स्वीया नगरी । पुरेव पूर्वमिव । अतायत विस्तारिता । कीदृशी पुरी । अयतायता । अयः शुभदैवम् । नलस्येति शेषः । तस्य भावोऽयता । तया । आयता विशाला । यदा राज्ञो नलस्य शुभदैवमभूतदा यथापूर्व स्वनगरी विशालाभूदिति भावः । यद्वा । कीदृशेन नलेन । अयतायता । अयेन शुभदैवेन तायति पालयति, देवब्राह्मणादीनिति शेषः । अयतायन् , तेन । यद्वा अयं तायति विस्तारयति, तेन । सर्वदा स्वशुभशंसकेन । ताय सन्तानपालनयोरित्यस्मात्कर्तरि शता । यद्वा अयो विद्यते यस्यासौ " अशआदिभ्योऽन्' इत्यचू । तस्य भावोऽयता शुभदैववत्त्वम् । तमेति प्रामोतीत्ययतायन् , तेन । इण गतौ ; कर्तरि शतार इणो यणिति यण् । अयं नलः । उन्महा उद्गततेजाः । सदा सर्वकालम् । सम्पदम् लक्ष्मीम् । अहास्त प्राप । कीदृशी सम्पदम् । महामहाम् । महान्तो महा उत्सवाः यम्यां सा ताम् । सदैवोत्सवपरिपूर्णा सम्बदं लेभे इति भावः । अतायतेति । तनु विस्तार इत्यस्माद्धातोः कर्मणि लट् । आत्मनेपदे ते परे यकि च कृते तनोतेर्यकीति विकल्पेनात्वे च रूपम । अहातेति । ओ हाङ् गतौ इत्यस्माद्य गत्यर्था ज्ञानार्थाश्चेति वचनेन प्राप्त्यर्थालुङि आत्मनेपदे ते परे सिचि कृते रूपम् । पूर्यतेति दीर्घपाठे । पू: पुरी । यता प्राप्ता । कथम्भूता । आयता विशालेत्यर्थः । “पू: स्त्री पुरीनगर्यो वा' इत्यमरः ॥ Colophon: ____ इति श्रीकालिदासकृते. नलोदये सत्काव्ये चतुर्थोच्छासः । समाप्तश्चायं ग्रन्थः ॥ इतीति । इति समाप्तौ । कालिदासेति कविनामकथनम् । सत्काव्य इति महाकाव्यभिन्नत्वसूचनम् । उच्छासः श्वाससाध्यः परिच्छेदः समाप्त इत्यर्थः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy