SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7921 No. 11842. घटकप्रीयम् , सव्याख्यानम्. GHATAKARPARIYAM WITH COMMENTARY. Pages, 18. Lines, 6 on a page. Begins on fol. 106 of the MS. described under No. 1277. Complete in 22 stanzas. The text is the same as the above and the commentary is by Tarā - candra. Beginning : निचितं खमुपेत्य नीरदैः प्रियहीनाहृदयावनीरदैः । सलिलैर्निहितं रजः क्षितौ रविचन्द्रावपि नोपलक्षितौ । प्रोषितप्रमदयदमुच्यते इति षष्ठश्लोकेनान्वयः । प्रोषितप्रमदया विदेशगतभर्तृकया सख्या अग्रत इदं वक्ष्यमाणमुच्यते । निचितमित्यादि वक्ष्यमाणं चोच्यते । हे सखि । कीदृशी । कुन्दसमानदन्ति । कुन्दपुष्पवत्तत्समाना दन्ता यस्याः सा तस्याः सम्बोधनम् । निचितं व्याप्तम् , आच्छन्नं वा । किम् । खं आकाशम् । कैः । नीरदैः । किम्भूतैः । प्रियहीनाहृदयावनीरदैः । प्रियेण वल्लभेन हीना प्रियहीना । तस्या हृदयं चित्तम् । तदेवावनिः (नी) भूमिः । तां रदन्ति विदारयन्ति तैः । रद विलेखने । किं कृत्वा । निचित्य उपेत्य आगत्य । तत्सलिलैर्जलैः निहितं स्थापितम् । किं तत् । रजः धूलिः । कस्याम् । क्षितौ भूमौ । रविचन्द्रावपि नोपलक्षितौ मेधैराच्छादितत्वान्न दृष्टौ । End: भावानुरक्तवनितासुरतैः शपेयमालम्ब्य चाम्बु तृषितः करकोशपेयम् । जीयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं घटकपरेण ।। येन परेण कविना यमकै येय तस्मै क(घ)टकपरेणाहमुदकं वहेयम् ; तस्य किङ्करो भवेयमित्यर्थः । यद्यहं जीयेय एतां प्रतिज्ञां दृढीकर्तु शपथद्वयं प्राह कविः । भावानुरक्तवनितासुरतैः शपेयम् । इङ्गितप्रीतकान्ताविलासैः । यदि प्रतिज्ञातं पालयति । तृषितः पिपासितः । करकोशपेयं हस्ते पातव्यमम्बु जलं चा(लम्व्य)प्राप्य । शपेयं शपथं कुर्याम् ॥ २२ ॥ ताराचन्द्राभिधेयेन बालव्युत्पत्तिहेतवे । घटकपरटीकेयं संशोध्य प्रकटीकता ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy