SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7895 शेषश्चक्रिकुलान्वितो महिभृतः पाकारिसंशिक्षिता गोत्राधःकृततां गतश्च कभठो घोणी दराभान्वितः । दिङ्नागाः कुमुदान्विता इति विमृश्येयं धराभामिनी भर्तारं समवाप्य सद्गुणयुतं माण्डप्रभुं मोदति ॥ ४१ ।। नूनं तद्धरणीपतेर्विशदया कीर्त्या पराभूततां प्राप्तापत्रपया युतो महितया गङ्गाम्बुधिं गाहते । तद्वद्भानुरपि प्रतापरविणा यातः पराभूततां तस्यानुप्रविशत्ययं प्रतिदिनं सायं कृपीटोद्भवम् || ४२ ॥ वेगात्मप्रतिपक्षचित्तविभुतान्यक्कारिणं गौतम किं नु प्रत्युपकर्तुमिच्छति हरिव्रातोऽस्य यात्रासु यत् । खे गङ्गां स्वखुरोद्धतेन रजसा यत्पङ्कयन्पङ्कजाहानं योगवदम्बुजेषु विदधत्तस्यां सहायो मते ।। ४३ ॥ रम्यैरिम्मडि अङ्कुशक्षितिपतेर्वाचां विलासर्जिता वाणी तिष्ठति काननेष सततं याता वलात्मताम् । दातृत्वेन जितोऽपि दैवततरुस्तुल्यत्वमाकाङ्क्षते यस्मादेष ततो जगत्सु भजते मन्दारनामद्रुमम् ॥ ४४ ॥ श्रीराणेम्मडि अङ्कशक्षितिभुजा यस्माज्जितोऽभून्नतो बाढं सैन्धवकोशले तृणसमं योग्याहृयोऽभूदतः । पक्षत्वं क्षितिशासनेऽधिकतरं दृष्ट्वा यदीयं जनैनहीं यत्पुरुकुत्सभूपतिरगात्सार्थाभिधानो दधत् ॥ ४५ ॥ क्षत्राणां प्रतिभाहरेण महता तस्य प्रतापेन किं नक्षत्रप्रतिभाहरो रविरयं साम्यं भजेत स्वयम् । तत्कीर्त्या भुवि निष्कलङ्कतरया पूर्णोऽपि भूत्वा शशी साम्यं किन्तु भजेत लोकविदितं रात्रीकलङ्कं दधत् ॥ ४६ ।। कीर्ताविम्मडि अङ्कशक्षितिपतेः पूर्णे सुधांशौ सदा रात्रावहि च जाग्रति स्फुटतया पद्मोद्भवेन ध्रुवम् । वैयर्थ्य परिचिन्त्य सम्प्रति मषीबिन्दुर्विधा निर्मितः पूर्व लाञ्छनकैतवेन बहुधा ब्रूते जनस्तं भ्रमात् ॥ ४७ ॥ 596 For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy